________________
अनगारधर्मे-तपोवर्णनम्।
५९
तपोवर्णनम् । रत्नत्रयाविर्भावार्थमिच्छानिरोधस्तपः, । अथवा कर्मक्षयार्थ मार्गाविरोधेन तप्यत इति तपः । तद्विविधं, बाह्यमाभ्यन्तरञ्च । अनशनादिबाह्यद्रव्यापेक्षत्वात्परप्रत्ययलक्षणत्वाच्च बाह्यं, तत् षड्विधं, अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशभेदात् । अभ्यन्तरमपि षड्विधं, प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानभेदात् ।।
तत्राऽनशनं नाम यत्किंचिदृष्टफलं मंत्रसाधनाद्यनुद्दिश्य क्रियमाणमुपवसनमनशनमित्युच्यते । तत्किमर्थं प्राणेन्द्रियसंयमप्रसिद्धिरागद्वेषाधुच्छेदबहुकर्मनिर्जरणशुभध्यानागमावाप्त्यर्थे । तद्दिविधमवधृतानवर्धकालभेदात् । तत्रावधृतकालं सकृद्भोजनचतुर्थषष्ठाष्टमदशमद्वादशपक्षमासत्वयनसंवत्सरेष्वशनपानखाद्यस्वाद्यलक्षणचतुविधाहारनिवृत्तिः । अनवधृतकालमादेहोपरमात् ।
आत्मीयप्रकृत्यौदनस्य चतुर्थभागेनार्द्धन ग्रासेण वोनाहारनियमोऽवमोदर्य । अवमोदर्यमिति च तत्किमर्थ निद्राजया) दोषप्रशमनार्थमतिमात्राऽऽहारजातविहितस्वाध्यायभयार्थमुपवासश्रमसमुद्भूतवातपित्तप्रकोपपरिहीयमानसंयमसंरक्षणार्थं च ।
स्वकीयतपोविशेषेण रसरुधिरमांसशोषणद्वारेणेन्द्रियसंयम परिपालयतो भिक्षार्थिनो मुनेरेकागारसप्तवेश्मैकरथ्यार्द्धग्रामदातृज नवेषगृहभाजनभोजनादिविषयसंकल्पो वृत्तिपरिसंख्यानमाशानिवृत्यर्थमवगन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org