________________
चारित्रसारे
शरीरेन्द्रियरागादिवृद्धिकरक्षीरदधिघृतगुडतैलादिरसत्यजनं रसपरित्याग इत्युच्यते । तत्किमर्थ दुर्दान्तेन्द्रियतेजोहानिः संयमो. परोधनिवृत्तिरित्येवमाद्यर्थम् । __ ध्यानाध्ययनविघ्नकरस्त्रीपशुषण्टकादिपरिवर्जितगिरिगुहाकन्दरपितृवनशून्यागाराऽऽरामोद्यानादिप्रदेशेषु विविक्तेषु जन्तुपीडारहितेषु संवृतेषु संयतस्य शयनासनं विविक्तशय्यासनं नाम । तत्किमर्थमाबा. धात्ययब्रह्मचर्यस्वाध्यायध्यानादिप्रसिद्धयर्थमसभ्यजनदर्शनेन तत्सहवासन वा जनितत्रिकालविषयरागद्वेषमोहापोहाथै वा।
वृक्षमूलाभ्रावकाशाऽऽतापनयोगवीरासनकुक्कुटासनपर्यङ्कार्द्धपर्यङ्कगोदोहनमकरमुखहस्तिशुण्डामृतकशयनैकपार्श्वदंडधनुशय्यादिभिः शरीरपरिखेदः कायक्लेश इत्युच्यते । तत्किमर्थं वर्षाशीताऽऽतपविषमसंस्थुलाऽऽसनविषमशय्यादिषु शुभध्यानपरिचर्याथै दुःखोपनिपाततितिक्षार्थ विषयसुखानमिष्वंगार्थ प्रवचनप्रभावनाद्यर्थ च कायक्लेशानुष्ठानं क्रियते । इतरथा हि ध्यानप्रवेशकाले सुखोचितः स्यात् , द्वन्द्वोपनिपाते सति समाधानं न स्यात् । एवं षड्विधं बाह्यलक्षणमुक्तम् ।
उत्तरमाभ्यन्तरमुच्यते । यतोऽन्यैस्तीर्थैरनभ्यस्तं ततोऽस्याऽऽभ्यन्तरत्वं, प्रायश्चित्तादितपो हि बाह्यद्रव्यानपेक्षत्वादन्तःकरणव्यापाराचाभ्यन्तरं । तत्र कर्तव्यस्याकरणे वर्जनीयस्यावर्जने यत्पापं सोऽतीचारस्तस्य शोधनं प्रायश्चितं । तत्किमर्थ प्रमाददोषव्यदासो भावप्रसादो नैःशल्यमनवस्थाव्यावृत्तिमर्यादात्यागः संथमदाढर्च चतर्वधाराधनमित्येवमादीनां सिद्धयर्थ प्रायश्चित्तं । तद्दशविधं;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org