________________
अनगारधर्मे-तपोवर्णनम् ।
आलोचनं, प्रतिक्रमणं, तदुभय, विवेकः, व्युत्सर्गः, तपः, छेदः, मूलं, परिहारः, श्रद्धानमिति । तत्रैकान्तनिषण्णायापरिश्राविणे श्रुतरहस्याय गुरवे प्रसन्नमनसे विद्यायोग्योपकरणग्रहणादिषु प्रश्नविनयमन्तरेण प्रवृत्तस्य विदितदेशकालस्य शिप्यस्य सविनयमात्मप्रमादनिवेदनमालोचनमित्यूच्यते । तस्य दश दोषा भवन्ति; आकम्पितं, अनुमापितं, यदृष्टं, वादरं, सूक्ष्म, छन्नं, शब्दाऽऽकुलितं, बहुजनं, अव्यक्तं, तत्सेवितमिति । तत्रोपकरेषु दत्तेषु प्रायश्चित्तं मे लघु कुर्वीतेति विचिन्त्य भयदादानं प्रथम आकंपितदोषः । प्रकृत्या पित्ताधिकोऽस्मि दुर्बलोऽस्मि ग्लानोऽस्मि नाऽलमहमुपवासादिकं कर्तुं यदि लघु दीयेत तदोषनिवेदनं करिष्य इति वचनं द्वितीयोऽनुमापितदोषः । अन्यादृष्टदोषगूहनं कृत्वा दृष्टदोषनिवेदनं मायाचारस्तृतीयो यदृष्टदोषः । आलस्यात्प्रमादज्ञानाद्वाऽल्पापराधावबोधनिरुत्सुकस्य स्थूलदोषप्रतिपादनं तुर्यो वादरदोषः । महादुश्चरप्रायश्चित्तभयाद्वाऽहो सूक्ष्मदोषपरिहारकोयऽमिति स्वगुणाख्यापनचिकीर्षया वा महादोषसंवरणं कृत्वा तनुप्रमादाचारनिवेदनं पंचमः सूक्ष्मदोषः । ईदृशे व्रतातीचारे सति नुः किं स्यात्प्रायश्चित्तमित्युपायेन गुरूपासना षष्ठश्छन्नदोषः । पाक्षिकचातुर्मासिकसांवत्सरिकेषु कर्मसु महति यतिसमवाय आलोचनशब्दाकुले पूर्वदोषकथनं सप्तमः शब्दाकुलितदोषः । गुरूपपादितं प्रायश्चित्तं किमिदं युक्तमागमे स्यान्नवेति यावल्लघु प्रतिपादयति तावद्वा शङ्कमानस्याऽन्यसाधुपरिप्रश्नोऽष्टमो बहुजनदोषः । यत्किचित्प्रयोजनमुद्दिश्याऽऽत्मना समानायैव प्रमादाचरितमावेद्य महदपि गृहीतं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org