________________
६२
चारित्रसारे-~
प्रायश्चित्तं न फलकरमिति नवमोऽव्यक्तदोषः । अस्यापराधेन ममातीचारः समानस्तमयमेव वेत्यस्मै यद्दत्तं तदेव मे युक्तं लघु कर्तव्यमिति स्वदुश्चरितसंवरणं दशमस्तत्सेवितदोषः । आत्मन्यपराधं चिरमनवस्थाप्य निकृतिभावमन्तरेण बालवजुबुद्धेदर्दोषान्निवेदयतो न ते दोषा भवन्त्यन्यच्च संयतालोचनमेकान्ते द्विविषयमिष्टं, संयतिकाऽऽलोचनं प्रकाशे त्रपाश्रयमिष्टं, लज्जापरपरिभवादिगणनया निवेद्यातीचारं न शोधयेदपरीक्षिताऽऽयव्ययोऽधमर्णवदवसीदति । महदपि तपःकर्मानालोचनपूर्वकं नाभिप्रेतफलप्रदं सामदेहगतौषधिवत् । कृताऽऽलोचनोऽपि गुरुमतं प्रायश्चित्तमकुर्वाणो विनिश्चितमात्रनुष्ठानशून्यराज्यवन्महती शाश्वतीं च संपदं न प्राप्नोति । कृतालोचनचित्तगतं प्रायश्चित्तं परिमृष्टदर्पणगतरूपवत्परिभ्राजते । ___ आस्थितानां योगानां धर्मकथादिव्याक्षेपहेतुसन्निधानेन विस्मरणे सत्यालोचनं पुनरनुष्ठाय कस्य संवेगनिर्वेदपरस्य गुरुविरहितस्या. ल्पापराधस्य पुनर्न करोमि मिथ्या मे दुप्कृतमित्येवमादिभिर्दोषानिवर्त्तनं प्रतिक्रमणं ।
किंचित्कर्माऽऽलोचनमात्रादेव शुद्धचत्यपरं प्रतिक्रमणेनेतरं दुःस्वप्नादिकं तदुभयसंसर्गेण शुद्धिमुपयाति। आलोचनप्रतिक्रमणपूर्व गुरुणाऽभ्यनुज्ञातं शिष्येणैव कर्तव्यं, तदुभयं पुनर्गुरुणैवानुष्ठेयम् । ___ संसक्तेषु द्रव्यक्षेत्रान्नपानोपकरणादिषु दोषान्निवर्तयितुमलभमानस्य तद्रव्यादिविमजनं विवेकः । अथ वा शक्तयननुगृहनेन प्रयत्नेन परिहरतः कुतश्चित्कारणादप्रासुकग्रहणग्राहणयोः प्रासुकस्यापि प्रत्याख्यातस्य विस्मरणात्प्रतिगृहे च स्मृत्वा पुनस्तदुत्सर्जनं विवेकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org