________________
अनगारधर्मे-तपोवर्णनम्।
६३
दुःस्वप्नदुश्चिन्तनमलोत्सर्जनाऽऽगमातीचारनदीमहाटवीरणादिभिरन्यैश्चाप्यतीचारे सति ध्यानमवलंब्य कायमुत्सृज्यान्तर्मुहूर्तदिवसपक्षमासादिकालावस्थानं व्युत्सर्ग इत्युच्यते । __ सत्त्वादिगुणालंकृतन कृतापराधेनोपवासैकस्थानाचाम्लनिर्विकृत्यादिभिः क्रियमाणं तप इत्युच्यते । भयोन्मादत्वरणविस्मरणानवबोधाशक्तिव्यसनादिभिर्महाव्रतातीचारे सत्यनन्तरोक्तषडिधप्रायश्चित्तं भवति । चिरप्रव्रजितस्य सहजबलस्य स्वभावशूरस्य गर्वितस्य कृतदोषस्य दिवसमासादिभागेन प्रवननं छित्वा छिन्नकालादिनाऽवस्थानं छेदो नाम । ___ पार्श्वस्थादीनां मूलं प्रायश्चितं, तद्यथा-पार्श्वस्थः कुशील:, संसक्तः, अवसन्नः, मृगचारित्र इति । तत्र यो वसतिषु प्रतिबद्ध उपकरणोपजीवी च श्रमणानां पार्श्वे तिष्ठतीति पार्श्वस्थः । क्रोधादिकषायकलुषितात्मा व्रतगुणशीलैः परिहीणः संघस्यानयकारी कुशीलः । मंत्रवैद्यकज्योतिष्कोपजीवी राजादिसेवकः संसक्तः । जिनवचनानभिज्ञो मुक्तचारित्रभारो ज्ञानाचरणभ्रष्टः करणालसोऽवसन्नः । त्यक्तगुरुकुल एकाकित्वेन स्वच्छन्दविहारी जिनवचनदूषको मृगचारित्रः स्वच्छन्द इति वा । एते पंच श्रमणा जिनधर्मबाह्याः । एवमुक्तपार्श्वस्थादिपंचविधोन्मार्गस्थितस्यापरिमितापराधस्य सर्व पयोयमपहाय पुनर्दीक्षादानं मूलमित्युच्यते। ___ परिहारोऽनुपस्थानपारंचिकभेदेन द्विविधः । तत्राऽनुपस्थानं निजपरगणभेदाद्विविधं । प्रमादादन्यमुनिसंबंधिनमृर्षि छात्रं गृहस्थं वा परपाखंडिप्रतिबद्धचेतनाचेतनद्रव्यं वा परस्त्रियं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org