SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चारित्रसारे चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिश्चयज्ञस्य हितोपदेशपरस्य कथामार्गकुशलस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसंभ्रमाऽऽसनप्रदानादीनि मे न कश्चित्करोतीत्येवमचिन्तयतो मानावमानयोः समानमनसः सत्कारपुरस्कारनिराकांक्षस्य श्रेयोध्यायिनः सत्कारपुरस्कारजयो वेदितव्यः । सत्कारः प्रशंसादिकः, पुरस्कारो नाम नन्दीश्वरादिपर्वयात्रात्मकक्रियारंभादिष्वग्रतः करणमामंत्रणं वा। अंगपूर्वप्रकीर्णकविशारदस्य कृत्स्नग्रन्थार्थधारिणोऽनुत्तरवादिनस्त्रिकालविषयार्थविदः शब्दन्यायाऽध्यात्मनिपुणस्य मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतवन्नितरामवभासत इति विज्ञानमदनिरासः प्रज्ञापरीषहजयः प्रत्येतव्यः । अज्ञोऽयं न किंचिदपि वेत्ति पशुसम इत्येवमाद्यधिक्षेपवचनं सहमानस्याध्ययनार्थग्रहणपराभिभवादिष्वनासक्तबुद्धेश्चिरप्रव्रजितस्य विविधतपोविशेषभाराकान्तमूर्तेः सकलसामर्थ्याप्रमत्तस्य विनिवृत्तानिष्टमनोवाकायचेष्टस्याद्याऽपि मे ज्ञानातिशयो नोत्पद्यत इत्येवं मनस्यसन्दधतोऽज्ञानपरीषहजयोऽवगन्तव्यः । संयमिप्रधानस्य दुष्करतपोऽनुष्ठायिनः परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्याहदायतनसाधुधर्मपूजकस्य चिरन्तनप्रव्रजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते महोपवासाद्यनुष्ठायिनां प्राप्तिहार्यविशेषाः प्रादुरभवन्निति प्रलापमात्रमिदमनर्थकेयं प्रव्रज्या विफलं व्रतपालनमित्येवं मानसमनादधानस्य दर्शनविशुद्धियोगाददर्शनपरीषहसहनमवसातव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy