SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे-संयमवर्णनम् । दुःखाधिकरणमशुचिभाजनं जीर्णवस्त्रवत्परिहेयं पित्तमारुतकफसन्निपातनिमित्तानेकामयवेदनाऽभ्यर्दितमन्यदीयमिव विग्रहं मन्यमानस्योपेक्षकत्वादाप्रच्युतेश्चिकित्साव्यावृत्तचेष्टस्य शरीरयात्राप्रसिद्धये व्रणानुलेपननवद्व्यथोक्तमाहारमाचरतो विरुद्धाहारसेवाविरसवैषम्यजनितवातादिविकाररोगस्य युगपदनेकशतसंख्याव्याधिप्रकोपे सत्यऽपि तद्वशवर्तितां विजहतो जल्लोषधिप्राप्ताद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिःस्पृहत्वात्प्रतीकारानपेक्षिणः पूर्वकृतपापकर्मणः फलमिदमनेनोपायेनाऽनृणी भवामीति चिन्तयतो रोगसहनं सम्पद्यते । यथाऽभिनिवृत्ताधिकरणशायिनः शुष्कतृणपरुषशर्कराभूमिकंटफलकशिलातलादिषु प्रासुकेष्वसंस्कृतेषु व्याधिमार्गगमनशीतोष्णजनितश्रमविनोदार्थ शय्यां निषद्यां वा भजमानस्य संस्कृतशुष्कतृणादिबाधितमूर्तरुत्पन्नकंडूविकारस्य दुःखमनभिचिन्तयतस्तृणादिस्पर्शबाधाभिरवशीकृतत्वात्तृणस्पर्शसहनमवगन्तव्यम् । जलजन्तुपीडापरिहारायास्नानप्रतिज्ञस्य स्वेदपंकदिग्धसर्वांगस्य वादरनिगोदप्रतिष्ठितजीवदयार्थ च शरीरसंस्कारविरमणार्थ च परित्यक्तोद्वर्तनस्य सिध्मकच्छुदीर्णकायस्य नखरोमश्मश्रुकेशविकृतसहजबाह्यमलसम्पर्ककारणानेकत्वग्विकारस्य स्वांगमलापचये परमलापचये वाप्रणिहितचेतसः संकल्पितसंज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपंकापनोदायैवोद्यतस्य पूर्वानुभूतस्नानानुलेपनादिस्मररणपराङ्मुखचित्तवृत्तेर्मलधारणमाख्यायते । केशलुञ्चने तत्संस्काराकरणे महान्खेदः संजायते तत्सहनमपि मलधारणेऽन्तर्भवतीति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy