SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ પ चारित्रसारे सुगन्धमुत्सृजतश्चन्दनस्येव शुभपरिणामस्य स्वकर्मनिर्जरामभिसंद-. धानस्य दृढमतेः क्षमौषधिवलस्य मारकेषु · सुहृत्स्विवामर्षापोहंभावनं वधमर्षणमित्याम्नायते । क्षुदध्वपरिश्रमतपोरोगादिभिरप्रच्यवितवीर्यस्य शुष्कपादपस्येव निरामूर्तेरुन्नतास्थिस्नायुजालस्य निम्नाक्षपुटपरिशुष्काधरक्षामपांडुकपोलस्य चर्मवत्संकुचितांगोपाङ्गत्वचः शिथिलजानुगुल्फकटिबाहुयंत्रस्य देशकालक्रमोपपन्नकल्पादायिनो वाचंयमस्य मौनिसमस्य वा शरीरसन्दर्शनमात्रव्यापारस्योर्जितसत्त्वस्य प्रज्ञाऽऽधायितचेतसः प्राणात्ययेऽपि वसत्याहारभेषजानि दीनाभिधानमुखवैवाअसंज्ञादिभिरयाचमानस्य भिक्षाकालेऽपि विद्युदुद्योतवदुपलक्षितमूर्तेः बहुषु दिवसेषु रत्नवणिजो मणिसन्दर्शनमिव स्वशरीरप्रकाशमकृपणं मन्यमानस्य वन्दमानं प्रति स्वकरविकासनमिव पाणिपुटधारणमदीनमिति गणयतो याचनासहनमवसीयते । अद्यत्वे पुनः कालदोषादीनानाथपाखण्डिबहुले जगत्यमार्गज्ञैरनात्मवद्भिर्याचनमनुष्ठीयते । वायुवदसंगानेकदेशचारिणोऽप्रकाशितवीर्यस्याभ्युपगतैककालभोजनस्य सकृन्मूर्तिसन्दर्शितव्रतकालस्य ‘देहि' इत्यसभ्यवाक्प्रयोगादुपरतस्यानुपात्तविग्रहप्रतिक्रियस्यायेदं श्वश्चेदमिति व्यपेतसङ्कल्पस्यैकस्मिन् ग्रामेऽलब्धे सति ग्रामान्तरान्वेषणनिरुत्सुकस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु बहुषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसो नाऽयं दाता तत्राऽन्यो दानशूरोऽतिधन्यो वदान्योऽस्तीति व्यपगतपरीक्षस्य लाभादप्यलाभो मे परं तप इति संतुष्टस्यालाभविजयोऽवसेयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy