________________
अनगारधर्मवर्णनम्।
दाल्पसारशंकितभ्रांतसकषायपरिहासायुक्तासभ्यशपननिष्ठुरधर्मविरोघिदेशकालविरोध्यतिसंस्तवादिवाग्दोषविरहितात्रिधानम् । अनगारस्य मोक्षकप्रयोजनस्य प्राणिदयातत्परस्य कायस्थित्यर्थ प्राणयात्रानिमित्तं तपोबृंहणार्थ च चर्यानिमित्तं पर्यटतः शीलगुणसंयमादिकं संरक्षतः संसारशरीरभोगनिर्वेदत्रयं भावयतो दृष्टवस्तुयाथात्म्यस्वरूपं चिन्तयतो देशकालसारथ्यादिविशिष्टमगर्हितमभ्यवहरणं नवकोटिपरिशुद्धमेषणसमितिः । षट्नीवनिकायस्योपद्रव उपद्रवणं, अंगच्छेदनादिव्यापारो विद्रावणं, संतापजननं परितापनं, प्राणिप्राणव्यपरोपणमारंभः, एवमुपद्रवणविद्रावणपरितापनारंभक्रियया निष्पन्नमन्नं स्वेन कृतं परेण कारितं वाऽनुमनितं वाऽधःकर्म ( जनितं) तत्सेविनोऽनशनादितपास्यभ्रावकाशादियोगा वीरासनादियोगविशेषाश्च भिन्नभाजनभरितामृतवत्प्रक्षरन्ति, ततश्च तदभक्ष्यमिव परिहरतो भिक्षोः परकृतप्रशस्तप्रासुकाऽऽहारग्रहणेऽपि षट्चत्वारिंशदोषा भवन्ति तद्यथा-षोडशविधा उद्गमदोषाः, षोडशविधा उत्पा: दनदोषाः, दशविधा एषणादोषाः संयोजनाप्रमाणाङ्गारधूमदोषाश्चत्वारः, एतैर्दोषैः परिवर्जितमाहारग्रहणमेषणासमितिरिति । नैःसनिकी चर्यामातिष्ठमानस्य पात्रग्रहणे सति तत्संरक्षणादिकृतो दोषः प्रसज्यते । कपालमन्यद्वा भाजनमादाय पर्यटतो भिक्षोर्दैन्यमासज्यते । गृहिजनानीतमपि भाजनं न सर्वत्र सुलभं तत्प्रक्षालनाविविधौ च दुःपरिहारः पापलेपः । स्वभाजनेन देशान्तरं नीत्वा भोजने चाशानुबन्धनं स्यात् स्वपूर्वविशिष्टभाजनाधिकगुणासंभवाच्च । न केनचिद्भुनानस्य दैन्यं स्यात् । ततो निःसंगस्य निष्परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org