________________
३२
चारित्रतारे
ग्रहस्य भिक्षोः स्वकरपुटभाजनान्नान्यद्विशिष्टमत्तिस्तस्मात्स्वायत्तेन पाणिपुटेन निरावाधे देशे निरालंबचतुरंगुलान्तरसमपादाम्यां स्थित्वा परीक्ष्य भुंजानस्य निभृतस्य तद्गतदोषाभावः । धर्माविरोधिनां परानुपराधिनां द्रव्याणां ज्ञानादिसाधनानां ग्रहणे विसर्जने च निरीक्ष्य प्रमृज्य प्रवर्त्तनमादाननिक्षेपणसमितिः । स्थावराणां जंगमानां च जीवानामविरोधेनांग मला निर्हरणं शरीरस्य च स्थापनमुत्सर्गसमितिः । एवं गमनभाषणाभ्यवहरणग्रहणनिक्षेपोत्सर्गलक्षणपंचसमितिविधानेऽप्रमत्तानां तत्प्रणालिकाप्रसृतकर्माभावान्निभृतानां संवरः सिद्ध्यति ।
एवमीर्या समित्यादिषु वर्तमानस्य मुनेस्तत्प्रतिपालनार्थं प्राणीन्द्रियपरिहारोऽपहृतसंयमः । एकेंद्रियादिप्राणिपीडापरिहारः प्राणसंयमः । इन्द्रियादिष्वर्थेषु रागानिभिष्वङ्ग इन्द्रियसंयमः । स चापहृतसंयमस्त्रिविधः, उत्कृष्टो मध्यमो जघन्यश्चेति । तत्र प्रासुकव-सत्याहारमात्रबाह्यसाधनस्य स्वाधीनेतरज्ञानचरणकरणस्य बाह्यजन्तु -- पनिपात आत्मानं ततोऽपहृत्य जीवान्परिपालयत उत्कृष्टः । मृदुना प्रमृज्य जन्तून्परिहरतो मध्यमः । उपकरणान्तरेच्छया जघन्यः । तस्यापहृतसंयमस्य प्रतिपालनार्थं शुद्धचष्टकोपदेशः । तद्यथाअष्टौ शुद्धयः । भावशुद्धिः, कायशुद्धिः, विनयशुद्धिः, ईर्यापथशुद्धि:, भिक्षाशुद्धि:, । प्रतिष्ठापनाशुद्धिः शयनाशन शुद्धिः, वाक्यशुद्धिश्चेति । तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्या हितप्रसादा रागाद्युपप्लवरहिता, तस्यां सत्यामाचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्म्मवत् । तथा चोक्तमपरग्रंथे—
·
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org