________________
अनगारधर्मे-तपोवर्णनम् ।
७१
श्याऽऽलोचनीयः । एवमात्माधीनता, प्रदक्षिणीकरणं, त्रिवारं, निष्पनत्रयं, चतुःशिरो, द्वादशावर्त्तकमिति क्रियाकर्म षडिधं भवति । तत्र चतु:शिरो दंडकद्वयाद्यन्ते प्रणतौ प्रदक्षिणीकरणे च दिक्चतुष्टयावनतौ चतुःशिरो भवति, अथवा शिरः शब्दः प्रधानवाची वन्दनाप्रधानभूता अर्हसिद्धसाधुधर्मा इति । उक्तं च राद्धान्तसूत्रे । " आदाहीणं पदाहीणं तिखुत्तं तिऊणदं चदुस्सिरं वारसावत्तं चेति .” एवं देवतास्तवनक्रियायां चैत्यभक्तिं पंचगुरुभक्तिं च कुर्यात् । ___ चतुर्दशीदिने तयोर्मध्ये सिद्धश्रुतशांतिभक्तिर्भवति । अष्टम्यां सिद्धश्रुतचारित्रशान्तिभक्तयः । पाक्षिके सिद्धचारित्रशान्तिभक्तयः । सिद्धप्रतिमायाः सिद्धभक्तिरेव, जिनप्रतिमायास्तीर्थकरजन्मनश्च पाक्षिकी क्रिया, अष्टम्यादिक्रियासु दर्शनपूजा त्रिकालवन्दनायोगे शान्तिभक्तितः प्राक् चैत्यभक्तिं पंचगुरुभक्तिं च कुर्यात् । चतुर्दशीदिने धर्मव्यासंगादिना क्रियां कर्तुं न लभेत चेत्पाक्षिकेऽष्टम्याः क्रियाः कर्तव्याः नन्दीश्वरदिने सिद्धनन्दीश्वरपंचगुरुशान्तिभक्तयोऽभिषेकवन्दनायाः सिद्धचैत्यपंचगुरुशान्तिभक्तयः। स्थिरचलजिनप्रतिमाप्रतिष्ठायाः सिद्धशान्तिभक्ती भवतः । स्थिरप्रतिमायाश्चतुर्थस्थाने सिद्धभक्तिरालोचनासहिता चारित्रभक्तिश्चैत्यपंचगुरुशान्तिभक्तयश्च कार्या । चलप्रतिमाया अभिषेकवन्दना स्यात् । महत्तरस्य सामान्यर्षेः सिद्धभक्तिपूर्विका वंदना । सिद्धान्तविदां सिद्धश्रुतभक्ती भवतः । आचार्याणां सिद्धाचार्यभक्ती । सिद्धान्तवेदिनामाचार्याणां सिद्धश्रुतसूरिभक्तयः । प्रतिमायोगस्थितस्य मुनेर्लघीयसोऽपि सिद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org