________________
७२
चारित्रसारे
योगशान्तिभक्तयः । निष्क्रमणे सिद्धचारित्रयोगशांतिभक्तयो भवन्ति प्रदक्षिणीकरणं योगभन्या । ज्ञानोत्पत्तौ सिद्धश्रुतचरणयोगशान्तिभक्तयो योगभत्त्या प्रदक्षिणीकरणं । जिननिवार्णक्षेत्रे सिद्धश्रुतचारित्रयोगपरिनिर्वाणशान्तिभक्तयो निर्वाणभत्तया प्रदक्षिणीकरणं । श्रीवर्द्धमानजिननिर्वाणदिने सिद्धनिर्वाणपंचगुरुशान्तिभक्तयः निर्वाणभक्त्या प्रदक्षिणा । सामान्यर्षों मृत शरीरस्य निषद्यकास्थानस्य वा सिद्धयोगशान्तिभक्तयः । सिद्धान्तवेदिनां साधूनां सिद्धश्रुतयोगशान्तिभक्तयः । उत्तरयोगिनां सिद्धचारित्रयोगशान्तिभक्तयः । सैद्धान्तोत्तरयोगिनां सिद्धचारित्रयोगशान्तिभक्तयः । आचार्यस्य सिद्धयोगाचार्यशान्तिभक्तयः । सैद्धान्ताचार्यस्य सिद्धश्रुतायोगाचार्यशान्तिभक्तयः । उत्तरयोगिनामाचायाणां सिद्धचारित्रयोगाचार्यशान्तिभक्तयः । उत्तरयोगिनः सैद्धान्ताचार्यस्य सिद्धश्रुतयोगाचार्यशान्तिभक्तयः । अनंतरोक्ता अष्टौ क्रियाः शरीरस्य निषद्यास्थानस्य च । श्रुतपंचम्यां सिद्धश्रुतभक्तिपूर्विकां वाचनां गृहीत्वा तद्नु स्वाध्याय गृह्णतः श्रुतभक्तिमाचार्यभक्तिं च कृत्वा गृहीतस्वाध्यायाः कृतश्रुतभक्तयः स्वाध्यायं निष्ठाप्य समाप्तौ शान्तिभक्तिं कुर्युः । संन्यासप्रारंभे सिद्धश्रुतभक्ती कृत्वा गृहीतवाचनाः कृतश्रुतसरिभक्तयः । स्वाध्यायं गृहीत्वा श्रुतभक्तौ स्वाध्यायं निष्ठापयेयुः । वाचनानिष्ठापनेऽपीमा क्रियां कृत्वा समाप्तौ शान्तिभक्तिं कुर्वन्तु । संन्यासस्थितस्य स्वाध्यायग्रहणे महाश्रुतसूरिभक्ती कृत्वा गृहीतस्वाध्याया महाश्रुतभक्तौ निष्ठापयन्तु । देवसिकरात्रिगोचारीप्रतिक्रमणे सिद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org