________________
अनगारधर्मे-तपोवर्णनम् ।
७३
प्रतिक्रमणनिष्ठितकरणचतुर्विशतितीर्थकरभक्तीनियमेन कुर्यात् । योगग्रहणे मोक्षे च योगभक्तिः । पाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणे सिद्धचारित्रप्रतिक्रमणनिष्ठितकरणदतुर्विशतितीर्थकरभक्तिचारित्रालोचनागुरुभक्तय बृहदालोचना गुरुभक्तिर्लघीयसी आचार्यभक्तिश्च करणीया । शेषप्रतिक्रमणे चारित्रालोचनाबृहदालोचनागुरुभक्तिं विना शेषाः कर्तव्याः । दीक्षाग्रहणे लुंचने च सिद्धयोगभक्ती कृत्वा लुंचनावसाने सिद्धभक्तिः करणीया । सिद्धयोगमक्ती कृत्वा प्रत्याख्यानं गृहीत्वाऽऽचार्यभक्तिं कृत्वाचार्यान्वन्दतां सिद्धभक्तिं कृत्वा प्रत्याख्यानं मोचयेत् । श्रुतभक्तिमाचार्यभक्तिं च कृत्वा गृहीतस्वाध्यायस्तन्निष्ठापने श्रुतभक्तिं करोतु । मङ्गलगोचरमध्याह्ने सिद्धचैत्यपंचगुरुशान्तिभक्तिं कुर्यात् । मंगलगोचरप्रत्याख्यानो महासिद्धयोगभक्ती कृत्वा गृहीतप्रत्याख्यान आचार्यशान्तिभक्ती कुर्यात् । वर्षाकाले योगग्रहणे निष्ठापने च सिद्धयोगपंचचैत्यगुरुभक्तयः कार्याः, चैत्यभक्त्या प्रदक्षिणीकुर्वन् सालोचनव्युत्सर्ग चतसृषु दिक्षु कुर्यात् । सिद्धान्तवाचनाग्रहणे सिद्धश्रुतभक्ती कृत्वा तदनुश्रुताचार्यभक्तिं कृत्वा गृहीतस्वाध्यायस्तन्निष्ठापने श्रुतशान्तिभक्ती करोतु । सिद्धान्तस्यार्थाधिकाराणां समाप्तावकैकं कायोत्सर्ग कुर्यात् । अर्थाधिकाराणां सुबहुमान्यत्वात्तेषामादौ सिद्धश्रुतसूरिभक्ती कृत्वा समाप्तावप्येतेन क्रमेण प्रवर्तिते सति षट् कायोत्सर्गा भवन्ति । गुरूणामनुज्ञया ज्ञानविज्ञानवैराग्यसम्पन्नो विनीतो धर्मशीलः स्थिरश्च भूत्वाऽऽचार्यपदव्या योग्यः साधुगुरुसमक्षे सिद्धाचार्यभक्तिं कृत्वाऽऽचार्यपदवीं गृहीत्वा शान्तिभक्तिं कुर्यात् । एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org