________________
चारित्रसारे
च्छासप्रमाणेन कायोत्सर्गं कृत्वा अनुत्सुकः सन् किंचित्कालं धर्म्यं शुक्लं च ध्यायेत् । नामस्थापनाद्रव्यभावसंनिधानं पुण्यपापास्रवहेतु -- रतः चैत्यं चैत्यालयो गुरवो निषद्यास्थानादयश्च सम्यग्दृष्टीनां क्रियार्हा भवन्ति । अचेतनात्मका व्यपगतदानबुद्धयः कल्पवृक्षचि - न्तामणयो यथा च देहिनां पुण्यानुरूपेणाभिलषितार्थप्रदायि नस्तथा जिनबिंबानि भव्यजनभक्त्यनुरूपेण गीर्वाणनिर्वाणपदप्रदायीनि गारुडमुद्रया यथा गरलापहरणं तथा चैत्यालोकनमात्रेणैव दुरितापहरणं भवत्यतश्चैत्यस्य तदाश्रयचैत्यालयस्याऽपि वन्दनाः कार्या ऐहि कार्थे निरपेक्षाः परानुग्रहबुद्धयोऽकारणबन्धवो मोक्षपरिभ्रष्टजनमार्गोपदेशकाः प्रत्यक्षनिस्तारकाश्च ततस्तेभ्यः सकाशात्सम्यक्त्वं ज्ञानाऽऽदानमनुत्रतं महाव्रतं संयमो तपश्च भवति ।
तेन गुरूणां पुण्यपुरुषोषितनिरवद्यनिषद्यास्थानादीनामुच्यते क्रियाविधानं । परायत्तस्य सतः क्रियां कुर्वाणस्य कर्मक्षयो न घटते, तस्मादात्माधीनः सञ्चैत्यादीन् प्रतिवन्दनार्थं गत्वा धौतपादस्त्रिप्रदक्षिणीकृत्येर्यापथकायोत्सर्गं कृत्वा प्रथममुपविश्याऽऽलोच्य चैत्यभक्तिकायोत्सर्ग करोमीति विज्ञाप्योत्थाय जिनेन्द्र चन्द्रदर्शनमात्रान्निजनयनचन्द्रकान्तोपलविगलदानन्दाश्रु जलधारापूरपरिप्लाक्तिपक्ष्मपुटोऽनादिभवदुर्लभभगवदर्हस्परमेश्वर परमभट्टारकप्रतिबिंबदर्शनजनितहर्षोत्कर्ष पुलकिततनुरतिभक्तिभरावनतमस्तकन्यस्त हस्तकुशेशयकुडलो दंडकद्वयस्यादावन्ते च प्राक्तनक्रमेण प्रवृत्त्य चैत्यस्तवनेन त्रिः-परीत्य द्वितीयवारेऽप्युपविश्याऽऽलोच्य पंचगुरुभक्तिकायोत्सर्ग करोमीति विज्ञाप्योत्थाय पंच परमेष्ठिनः स्तुत्वा तृतीय वारेऽप्युपवि-
06.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org