SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे-तपोवर्णनम्। ६९ कपित्थमुष्टिः, शीर्षप्रकंपितं, मूकसंज्ञा, अंगुलिचालनं, भ्रूक्षेपं, उन्मत्तं, पिशाचं, अष्टदिगवलोकनं, ग्रीवोन्नमनं, ग्रीवावनमनं, निष्ठीवनं, अंगस्पर्शनमिति द्वात्रिंशद्दोषा भवन्ति । __ क्रिया कुर्वा! वीर्योपगृहनमकृत्वा शक्त्यनुरूपतः स्थितेनाशक्तः सन्पर्यङ्कासनेन वा त्रिकरणशुद्धया संपुटीकृतकरः क्रियाविज्ञापनपूर्वकं सामायिकदंडकमुच्चारयेत् , तदावर्त्तत्रयम् यथाजातं शिरोन्नमनमेकं भवति, अनेन प्रकारेण सामायिकदंडकसमाप्तावपि प्रवर्त्य यथोककालं जिनगुणानुस्मरणसहितं कायव्युत्सर्ग कृत्वा द्वितीयदंडकस्यादावन्ते च तथैव प्रवर्त्तनं, एवमेकैकस्य कायोत्सर्गस्य द्वादशावर्त्ताश्चत्वारि शिरोवनमनानि भवन्ति । अथवैकस्मिन् प्रदक्षिणीकरणे चैत्यादीनामभिमुखीभूतस्याऽऽवर्त्तत्रयैकावनमने कृते चतसृप्यपि दिक्षु द्वादशावर्त्ताश्चतस्रः शिरावनतयो भवन्ति । आवर्तानां शिरःप्रणतीनामुक्तप्रमाणादाधिक्यमिति न दोषाय । उक्तं च दुउपादं जहाजादं वारसावत्तमेव च।। चदुस्सिरंति सुद्धिं च किदियमं पउं वंदे ॥ वक्ष्यमाणक्रियाणां कालनियम उच्यते । देवसिकस्य नियमस्याष्टोत्तरशतं, रात्रिकस्य तदर्द्ध, पाक्षिकस्य त्रिशतं, चातुर्मासिकस्य चतुःशतं, सांवत्सरिकस्य पंचशतं, उच्छासानामेषां पंचानां नियमात्तस्य कायोत्सर्गस्य प्रमाणं । अहिंसादिपंचनियमानामन्यतमस्यातीचारे सत्येकैकस्याष्टोत्तरशतं, गोचारस्य ग्रामान्तरगमनस्याऽर्हच्छ्रमणनिषद्यानामुच्चारप्रश्रवणयोश्च पंचविंशतिः, ग्रन्थप्रारंभे परिसमाप्तौ च स्वाध्याये वन्दनायां प्रणिधाने च सप्तविंशतिः । एवमुक्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy