SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चारित्रसारे कायोत्सर्ग उच्यते । विविधानां वाह्याभ्यन्तराणां बन्धहेतूनां दोषाणामुत्तमस्त्यागो व्युत्सर्गः । आत्मनाऽनुपात्तस्यैकत्वमनापन्न - स्याहारादेस्त्यागो बाह्योपधिव्युत्सर्गः । क्रोधमानमायालाभमिथ्यात्वहास्यरत्यरतिशोकभयादिदोष निवृत्तिराभ्यन्तरोपधिव्युत्सर्गः, कायत्यागश्चाऽभ्यन्तरोपधिव्युत्सर्गः त्यागश्चाऽभ्यन्तरो पधिव्युत्सर्गः । स द्विविधः । यावज्जीवं, नियतकालश्चेति । तत्र यावज्जीवं त्रिविधः । भक्तप्रत्याख्यानेंगिनीमरणप्रायेोपगमनभेदात् । तत्र भक्तप्रत्याख्यानं जघन्येनान्तर्मुहूर्तमुत्कृष्टेन द्वादशवर्षाणि, अवान्तरो मध्यम उभयोपकारसापेक्षं भक्तप्रत्याख्यानमरणं । परप्रतीकारनिरपेक्षमात्मोपकारसापेक्षमिंगिनीमरणं । उभयोपकारनिरपेक्षं प्रायोपगमनं । नियतकालो द्विविधः, नित्यनैमित्तिकभेदेन । नित्य आवश्यकादयः । नैमित्तिकः पार्वणी क्रिया निषद्याक्रियादयश्च । क्रियाकरणे वन्दनायाः कायोत्सर्गस्य च द्वात्रिंशद्वात्रिंशद्दोषा भवन्ति । तत्र वन्दनाया अनाहतं, स्तब्धं, प्रविष्टं, परपीडितं, दोलायितं, उन्मस्तकं, कच्छपरंगितं, मत्स्योद्वर्त्तनं, मनोदुष्टं वेदिकाबंधं, भेष्यत्वं, भीषितं, ऋद्धिगौरवं, शेषगौरवं स्तेनितं, प्रत्यनीकं, क्रोधादिशल्यं, तर्जितं, शह्नितं, हेडितं, त्रिवलितं, कुंचितं, आचार्यादिदर्शनं अदृष्टं, संघकरमोचनं, आलब्धं, अनालब्धं, हीनं, अधिकं, घर्घरं, सुललितामिति द्वात्रिंशदोषा भवन्ति । व्युत्सृष्टबाहुयुगले चतुरंगुलान्तरितसमपादे सर्वाङ्गचलनरहिते कायोत्सर्गेऽपि दोषाः स्युः । घोटकपाद, लतावकं, स्तंभावष्टंभ, कुड्याश्रितं, मालिकोद्वहनं,, शबरीगुह्यगूहनं, शृंखलितं, लंबितं, उत्तरितं, स्तनदृष्टिः, काकाऽलोकनं, खलीनितं, युगकन्धरं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy