SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मवर्णनम् । गमार्थविषयस्योत्कृष्टानुरागस्य दर्शनविशुद्धयादिपंचदशस्वविनाभावात् । एवं षोडश भावनाः स्युः । एकैकस्यां भावनायामविनाभाविन्य इतरपंचदश भावनाः । तेन सम्यग्भाव्यमानानि व्यस्तानि समस्तानि वा तीर्थकरनामकस्रिवकारणानि भवति । असंयतसम्यग्दृष्टित अपूर्वकरणस्य पदे षट् सप्त भागा यावत् । __ इति श्रीमच्चामुंडरायप्रणीते चारित्रसारे षोडशभावनावर्णनं समाप्तम् । __ अनगारधर्मवर्णनम् । इदानीमनगारधर्म उच्यते, स चोत्तमक्षमामार्दवाऽऽर्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्यभेदेन दशविधः । उत्तमग्रहणं ख्यातिपूजादिनिवृत्त्यर्थे, तत्प्रत्येकमभिसम्बध्यते, उत्तमक्षमा, उत्तममार्दवमित्यादि । मोक्षमार्गे प्रवर्त्तमानस्य प्रमादपरिहारार्थ दशविधधर्माख्यानम् । __ तपोहणकारणशरीरस्थितिनिमित्तं निरवद्याहारान्वषणार्थ परगृहाण्युपसर्पतो मिक्षोर्दुष्टजनाक्रोशनोत्प्रहसनाऽवज्ञाऽनुताडनशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां संनिधाने कालुष्याभावः क्षमेत्युच्यते । उत्तमक्षमाया व्रतशीलपरिरक्षणमिहामुत्र दुःखानभिष्वंगः सर्वस्य जगतः सन्मानसत्कारलाभप्रसिद्धयादिश्च गुणस्तत्प्रतिपक्षस्य क्रोधस्य धर्मार्थकाममोक्षप्रणाशनं दोष इति विचिन्त्य क्षतव्यं । कोधनिमित्तस्यात्मनि भावाभावानुचिंतनात्परैः प्रयुक्तस्य क्रोधनिमित्त. स्यात्मनि भावानुचिंतनात्तावद्विद्यते मय्येते दोषाः किमत्रासौ मिथ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy