________________
२८
चारित्रसारे
ब्रवीतीति क्षन्तव्यं । अभावचिंतनादपि नैते मयि विद्यन्ते दोषा अज्ञानादसौ ब्रवीतीति क्षमा कार्या । अपि च बालस्वभावचिन्तनं प्रत्यक्षपरोक्षाकोशनताडनमारणधर्मभ्रंशनानामुत्तरोत्तररक्षणार्थ, त. द्यथा-परोक्षमाक्रोशति बाले क्षन्तव्यमेवं स्वभावा हि बालाः भवन्ति, दिष्टया च स मां परोक्षमाक्रोशति न च प्रत्यक्षमेतदपि वालेष्विति लाभो मन्तव्य एव । प्रत्यक्षमाक्रोशति सोढव्यं, विद्यत एतद्वालेषु दिष्टया च मां प्रत्यक्षमाक्रोशति, यन्न ताडयत्येतदपि बालेष्विति लाभ एव मंतव्यः । ताडयत्यपि मर्षितव्यं, दिष्टया च मां ताडयति न प्राणैर्वियोजयति। एतदपि बालेष्विति लाभ एव मन्तव्यः । प्राणैर्वियोजयत्यपि तितिक्षा कर्त्तव्या, दिष्टया च मां प्राणैर्वियोजयति, मदधीनाद्धर्मान्न भ्रंशयतीति । किञ्चान्यन्ममैवापराधोऽयं यत्पुराऽऽचरितं तन्महदुष्कर्म तत्फलमिदमाक्रोशवचनादिनिमित्तमात्रं परोऽयमति सोढव्यमिति ।
उत्तमजातिकुलरूपविज्ञानैश्वर्यश्रुतजपतपोलाभवीर्यस्यापि तत्कृत. मदावेशाभावात्परप्रयुक्तमपरिभवनिमित्ताभिमानाभावो मार्दवं माननिर्हरणमवगन्तव्यम् । मार्दवोपेतं गुरवोऽनुगृह्णति, साधवोऽपि साधु मन्यन्ते । ततश्च सम्यग्ज्ञानादीनां पात्रं भवति, अतः स्वर्गापवर्गफलावाप्तिानमालिनमनसि व्रतशीलानि नावतिष्ठन्ते, साधवश्चैनं परित्यजन्ति, तन्मूलाः सर्वा विपत्तय इति ।
योगस्य कायवाङ्मनोलक्षणस्यावक्रताऽऽर्जवमित्युच्यते । ऋजुहृदयमधिवसन्तो गुणा मायामावं नाश्रयन्ते, मायाविनो न विश्वासिति लोकः गर्हिता च गतिर्भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org