________________
अनगारधर्मवर्णनम् ।
२९ प्रकर्षप्राप्तलोभानिवृत्तिः शौचमित्युच्यते । शुच्याचारमिहापि सन्मानयन्ति सर्वे, विश्रंभणादयश्च गुणास्तमधितिष्ठन्ति । लोभभावनाक्रान्तहृदये नावकाशं लभन्ते गुणाः । स च लोभो जीविताऽऽरोग्येन्द्रियोपभोगविषयभेदाच्चतुर्विधः, स्वपरविषयावात्स प्रत्येकं द्विधा भिद्यते । स्वनीवितलोभः, परजीवितलोभः, स्वारोग्यलोभः, परारोग्यलोभः, स्वेन्द्रियलोभः, परेन्द्रियलोभः, स्वोपभोगलोभः, परोपभोगलोभश्चेति । अतस्तन्निवृत्तिलक्षणं शौचं चतुर्विधमिति । ___ सत्सु प्रशस्तेषु जनेषु साधुवचनं सत्यमित्युच्यते । सत्यसद्भावो दशविधः, नामरूपस्थापनाप्रतीत्यसंवृत्तिसंयोजनाजनपददेशभावसमयसत्यभेदेन । तत्र सचेतनेतरद्रव्यस्यासत्यप्यर्थे यद्व्यवहारार्थ संज्ञाकरणं तन्नामसत्यं, इन्द्र इत्यादि । यदर्थासन्निधानेऽपि रूपमात्रेणोच्यते तद्रू सत्यं, यथा चित्रपुरुषादिषु । असत्यपि चैतन्ययोगादावर्थे पुरुष इत्यादि, असत्यप्यर्थ यत्कार्यार्थ स्थापितं द्यूताक्षरसारिकानिक्षेपादिषु तत्स्थापनासत्यं, चन्द्रप्रभप्रतिमा इति । साधनादीनौपशमिकादीन् भावान् प्रतीत्य यद्वचनं तत्प्रतीत्यसत्यं, दीर्घोऽयं पुरुषस्ताल इत्यादि । यल्लोकसंवृत्या गीतं वचस्तत्संवृतिसत्यं, यथा पृथिव्याधनेककारणत्वेऽपि सति पङ्के जातं पंकजमित्यादि । धूपचूर्णवासनानुलेपनप्रघर्षादिषु पद्ममकरहंससर्वतोभद्रक्रौंचव्यूहादिषु वाऽचेतनेतरद्रव्याणां यथाभागविधानं संनिवेशाविर्भावकं यद्वचस्तत्संयोजनासत्यम् । द्वात्रिंशजनपदेष्वार्यानार्यभेदेषु धर्मार्थकाममोक्षाणां प्रापकं यद्वचस्तज्जनपदसत्यं, राजाराणकमित्यादि । ग्रामनगरराजगणपाखंडजातिकुलादिधर्माणामुपदेशकं यद्वचस्तद्देशसत्यं, ग्रामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org