________________
शीलसप्तकवर्णनम् ।
गृहीतं, संकल्पभंगे कुतः सत्पुरुषता ? ततः काकमासाम्यवहरणं न करिष्यामीति प्रतिज्ञाने समुपलक्षिततदीयाकूतस्तं मांसमुपयोजयितुं सौरपुराधिपतिः शूरवीरनामा तस्य मैथुनः समागच्छन् वनगहनगतवटतरोरधः कांचिदभिरुदतीं समीक्ष्य 'कथय केन हेतुना रोदिष्येका त्वम् ' इत्यनुयुक्ता साऽवोचदहं यक्षी । तव श्यालकं बलवदामयपरिपीडितं मांसभक्षणविरमणव्रतफलेन मे भविष्यंतमधिपति भवानद्य मांसभोजनेन नरकगतिभागिनं कर्तुं प्रारभत इति रोदनमनुभवामीति तयोदितः । श्रद्धेहि ' तदहं न कारयिष्यामीति व्याहृत्य गत्वा तमवलोक्य शरीरामयनिराकरणहेतुस्त्वया मांसोपयोगः क्रियतामिति प्रियश्यालकवचनश्रवणेन ' त्वं प्राणसमो बंधुः श्रेय एव मे कथयितुमर्हसि, न हितार्थवचनमेतन्नरकगतिप्रापणहेतुत्वादेवं म्रियमाणोऽपि म्रिये न तु प्रतिज्ञाहानि करोमि " इति निगदितस्तदभिप्रायविधारणात्स तस्मै यक्षीनिरूपितवृत्तांतम कथयत् । सोऽपि तदाकर्णनादहिंसादिश्रावकव्रतमविकलमादाय जीवितांते सौधर्मकल्पे देवोऽभवत् । शुरवीरश्च तस्य परलोकक्रियावसान उपगच्छन् यक्षी निरीक्ष्य कथय स किं मे मैथुनस्तव पतिरजायतेति परिपृष्टा साऽवोचत् । स्वीकृतसमस्तव्रतसंग्रहस्यामुख्यव्यंतरगति. पराङ्मुखस्य सौधर्मकरूपे समुत्पत्तिरासीत् , ततो मदधिपत्वप्रच्युतः प्रकृष्टदिव्यभोगमनुभवतीति हृदयगततद्वचनार्थनिश्चितमतिरहो व्रतप्रभावः समभिलषितफलप्रदानसमर्थ इति समाधिगुप्तिमुनिसमीपे परि. गृहीतश्रावकवतो बभूव । खदिरसारो द्विसागरोपमकालं दिव्यभोग. मनुभूय समनुष्ठितभोगनिदानः स्वनीवितांते ततः प्रच्युतः प्रत्यंतपुरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org