________________
चारित्रसार
तथा च-भरतेऽस्मिन्कुलालविषये श्रावस्तिपुराधिपतिः सुकेतुमहाराजो महाभोगी द्यूतव्यसनाभिहतः स्वकीयं कोशं राष्ट्रमंतःपुरं च द्यूते हारयित्वा महादुःखाभिभूतोऽभूत् । तथा च युधिष्ठिरोऽपि द्यूतेन राज्याद्भष्टः कष्टां दशामवाप । __मांसान्निवृत्तिरहिंसाव्रतपरिपालनार्थ, मासाशिनं साधतो विनिदंति प्रत्ये च दुःखभाग्ववति । तथा चान्यैरुक्तम्
मां स भक्षयति प्रेत्य यस्य मांसमिहादुम्यहम् । एतन्मांसस्य मांसत्वं प्रवदंति मनीषिणः॥ मांसं प्राणिशरीरं प्राण्यंगस्य च विदारणेन विना। तन्नाप्यते ततस्तत्त्यक्तं जैनैः सदा सर्वैः ॥ तथा हि-कुंभनाम्नो नरपते(मो नाम महानसिकस्तिर्यग्मांसमलभमानो मृतशिशुमांसं सर्वसंभारेण सन्मिश्रं कृत्वा कुंभस्य दत्तवान् । ततः प्रभृति सोऽपि नरमांसलोलुपः संजातः । तज्ज्ञात्वा प्रकृतयो राज्यस्यायमयोग्य इति तं परिहृतवत्यः । तथा च विंध्यमलयकुटजवने किरातमुख्यः खदिरसारः समाधिगुप्तमुनिं दृष्ट्रा प्रणतस्तस्मै धर्मलाभ इत्युक्ते कोऽसौ धर्मः, कोऽसौ लाभ इत्युक्तपरिप्रश्ने मांसादिनिवृत्तिधर्मस्तत्प्राप्तिाभस्ततः स्वर्गादिसुखं जायत इत्युक्तवति मुनौ तत्सर्व परिहर्जुमहमशक्त इति वचने तदाकूतमवधार्य त्वया काक्रमांसं पूर्व किं भक्षितमुत न वेत्युक्तेऽकृतभक्षणोऽहमिति प्रतिवचने यद्येवं तदभक्षणव्रतं त्वया गृह्यतामित्युपदेशेन तत्परिगृह्याभिवंद्य गतवतः कालांतरे तस्यामये समुत्पन्ने सति वैद्येन काकमांसभक्षणादस्य व्याधेरुपशमो भविष्यतीत्युक्ते कंठगतेष्वपि प्राणेषु मया न कर्तव्यं तत्काकमांसोपयोगविरमणव्रतं तपोधनसमीपे परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org