________________
૬૮
चारित्रसारे
सुमित्रनामा मित्रराज्ञः पुत्रोऽभूत् । निर्दर्शनतपः कृत्वा व्यंतर आसीत्ततः कुणिकनरपतेः श्रीमतीदेन्याश्च श्रेणिकोऽभूदिति । एवं दृष्टादृष्टफलस्याप्यहितं मांसम |
मद्यपस्य हिताहितविवेकता वाच्यावाच्यता गम्यागम्यता कार्याकार्यं च नास्ति । मद्यमुपसेविनो जनस्य स्मृतिं विनाशयति, विनष्टस्मृतिकः किं न करोति, किं न भाषते, कमुन्मार्गे न गच्छति, सर्वदोषाणामास्पदं तदेव तस्याख्यानम् ।
तथा हि — कश्चिद्ब्राह्मणो गुणी गंगास्नानार्थ गच्छन्नटवीप्रदेशे प्रहसनशीलेन मदिरामदोन्मत्तेन कांतासहितशबरेण स निरुध्य मांसभक्षण सुरापान शबरी संसर्गेषु भवताऽन्यतममंगीकरणीयमन्यथा भवतं व्यापादयामीत्युक्तः किंकर्त्तव्यतामूढः, प्राण्यंगत्वान्मांसभक्षणे पापोपलेपो भवति, शबरीसंसर्गे जातिनाशः संजायते, पिष्टोदकगुडघातक्यादिसमुत्पन्नं निरवद्यं मद्यमिदं पिबामीति पीत्वा विनष्टस्मृतिरगम्यगमनमभक्ष्यभक्षणं च कृतवान् । तथा हि-मद्यपायिनामपराधेन द्वीपायनमुनिकोपाद्भस्मीभूतायां द्वारवत्यां विनष्टा यादवा इति ।
मत्तो हिनस्ति सर्वं मिथ्या प्रलपति विवेकविकलतया । मातरमांपे कामयते सावद्यं मद्यमत एव ॥
सामायिकः संध्यात्रयेऽपि भुवनत्रयस्वामिनं वंदमानो वक्ष्यमाण व्युत्सर्गतपसि कथितक्रमेण ।
द्विनिषण्णं यथाजातं द्वादशावर्त्तमित्यपि । चतुर्नति त्रिशुद्धं च कृतिकर्म प्रयोजयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org