SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ शीलसप्तकवर्णनम् । १९ अस्य सामायिकस्यानंतरोक्तशीलसप्तकांतर्गतं सामायिकं व्रतं प्रतिकस्य शीलं भवतीति । प्रोषधोपवासः मासे मासे चसुर्ष्वपि पर्वदिनेषु स्वकीयां शक्तिमनिगूह्य प्रोषधनियमं मन्यमानो भवतीति व्रतिकस्य यदुक्तं शीलं प्रोषधोपवासस्तदस्य व्रतमिति । सचित्तत्रतो दयामूर्तिर्मूलफलशाखाकरी रकंदपुष्प बीजादीनि न भक्षयत्यस्योपभोगपरिभोगपरिमाणशीलताति चारो व्रतं भवतीति । रात्रिभक्तत्रता रात्रौ स्त्रीणां भजनं रात्रिभक्तं तद्वतयति सेवत इति रात्रिव्रतातिचारा रात्रिभक्तत्रतः दिवाब्रह्मचारीत्यर्थः । ब्रह्मचारी शुक्रशोणितबीजं रसरुधिरमांसमेदोऽस्थिमज्जा शुक्र सप्तधातुमयमनेकस्रोतोविलं मूत्रपुरीषभाजनं कृमिकुलाकुलं विविधव्याधिविधुरमपायप्रायं कृमिभस्मविष्टापर्यवसान मंगमित्यनंगाद्विरतो भवति । आरंभविनिवृत्तोऽसिमसिकृषिवाणिज्यप्रमुखादारंभात्प्राणातिपातहेतोर्विरतो भवति । परिग्रहविनिवृत्तः क्रोधादिकषायाणामार्त्तरौद्रयोहिंसादिपंचपापानां भयस्य च जन्मभूमिः, दूरोत्सारितधर्म्य शुक्लः परिग्रह इति मत्वा दशविध बाह्यपरिग्रहाद्विनिवृत्तः स्वच्छ ः संतोषपरो भवति । अनुमतिविनिवृत्त आहारादीनामारंभाणामनुमननाद्विनिवृत्तो भवति । उद्दिष्टविनिवृत्तः स्वोद्दिष्टपिंडोपधिशयनवसनादेर्विरतः सन्नेकशाटकघरो भिक्षाशनः पाणिपात्रपुटेनोपविश्य भोजी रात्रिप्रतिमादितपः समुद्यत आतापनादियोगरहितो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy