SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २० चारित्रसारे-:. ___ अणुव्रतिमहाव्रतिनौ समितियुक्तौ संयमिनौ भवतः समिति विना विरतौ । तथा चोक्तं वर्गणाखंडस्य बंधनाधिकारेसंजमविरइणं को भेदो, ससमिदिमहव्वयाणुव्वयाई संजमो,, समदीहिं विणा महब्बयाणुब्वयाई विरदी ॥ इति आयास्तु षट् जघन्याः स्युर्मध्यमास्तदनु त्रयः । शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ॥ असिमषिकृषिवाणिज्यादिभिगृहस्थानां हिंसासंभवेऽपि पक्षचर्यासाधकत्वैर्हिसाऽभावः क्रियते । तत्राहिंसापरिणामत्वं पक्षः । धर्मार्थ देवतार्थ मंत्रसिद्धयर्थमौषधार्थमाहारार्थ स्वभोगार्थ च गृहमेधिनो हिंसा न कुर्वन्ति । हिंसासंभवे प्रायश्चित्तविधिना विशुद्धः सन् परिग्रहपरित्यागकरणे सति स्वगृहं धर्म च वंश्याय समर्प्य यावद्गृहं परित्यजति तावदस्य चर्या भवति । सकलगुणसंपूर्णस्य शरीरकंपनो. च्छासनोन्मीलनविधि परिहरमाणस्य लोकाग्रमनसः शरीरपरित्यागः साधकत्वमेवं पक्षादिभिस्त्रिभिर्हिसाधुपचितं पापमपगतं भवति । जैनागमे चत्वार आश्रमाः-उक्तं चोपासकाध्ययने । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः। इत्याश्रमास्तु जैनानां सप्तमांगाद्विनिःसृताः॥ तत्र ब्रह्मचारिणः पंचविधाः--उपनयावलंबादीक्षागूढनैष्ठिकभेदेन । तत्रोपनयबह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहधर्मानुष्ठायिनो भवति । अवलंबब्रह्मचारिणः क्षुलकरूपेणागममभ्यस्य परिगृहीतगृहावासा भवंति । अदीक्षाब्रह्मचारिणः वेषमंतरेणाभ्यस्तागमा गृहधर्मनिरता भवति । गूढब्रह्मचारिणः कुमारश्रमणाः संतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy