________________
अनगारधर्मे-तपोवर्णनम्।
६५
तावत एव न तेषां तावद्विकल्पं प्रायश्चित्तमस्ति व्यवहास्नयापेक्षया पिंडीकृत्य प्रायश्चित्तविधानमुक्तम् । ___ कषायेन्द्रियविनयनं विनयः, अथवा रत्नत्रयस्य तद्वतां च नीचैर्वृत्तिर्विनयः , स चतुःप्रकारः । ज्ञानविनयो दर्शनविनयश्चारित्रविनय उपचारविनयश्चेति । तत्राऽनालसेन शुद्धमनसा देशकालादिविशुद्धिविधानविचक्षणेन सबहुमानेन यथाशक्ति निषेव्यमाणो मोक्षार्थ ज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । सामायिकादौ लोकविन्दुसारपर्यते श्रुतसमुद्रे ये यथा भगवद्भिरुपदिष्टाः पदार्थास्तेषां तथा श्रद्धाने निःशंकितत्त्वादिलक्षणोपेतता दर्शनविनयः । ज्ञानदर्शनचारित्रतपोवार्यवतो दुश्वरचरणश्रमणानंतरमुद्रिन्नरोमांचाभिव्यज्यमानान्तर्भक्तः परं प्रसादमस्तकांजलिकरणादिमि.
र्भावयतश्चानुष्ठातृत्वं चारित्रविनयः । उपचारविनयो द्विविधः, प्रत्यक्षः परोक्ष इति । तत्राऽऽचार्योपाध्यायस्थविरप्रवर्तकगणधरादिषु पूजनीयेष्वभ्युत्थानमभिगमनमंनलिकरणं वंदनाऽनुगमनं रत्नत्रयबहुमानः सर्वकालयोग्यानुरूपक्रियाऽनुलोमता सुनिगृहीतत्रिदंडता सु. शीलयोगता धर्मानुरूपकथाकथनश्रवणभक्तिताऽर्हदायतनगुरुभक्तिता. दोषवद्वर्ननं गुणवृद्धसेवाऽभिलाषाऽनुवर्त्तनं पूजनं । यदुक्तं---"गुरुस्थ. विरादिभिर्नान्यथा तदित्यनिशं भावनं समेष्वनुत्तोको हीनेष्वपरिभवः जातिकुलधनैश्चर्यरूपविज्ञानबललार्द्धषु निरभिमानता सर्वत्र क्षमापरता मितहितदेशकालाऽनुगतवचनता कार्याकार्योन्या मेन्यवाच्यावाच्यज्ञातृता इत्येवमादिभिरात्मानुरूपः प्रत्यक्षोपचा विनयः । " परोक्षोपचारविनय उच्यते, परोक्षेप्वप्याचार्यदिवंजलिक्रियागुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org