________________
चारित्रसारे
संकीर्तनानुस्मरणाऽऽज्ञानुष्ठायित्वादिः कायवाङ्मनोभिरवगन्बव्यः, रागप्रहसनविस्मरणैरपि न कस्याऽपि पृष्ठमांसभक्षणं करणीयमेवमादिः परोक्षोपचारविनयः प्रत्येतव्यः । मंत्रौषधोपकरणयशःसत्कारलाभाद्यानपेक्षितचित्तेन परमार्थनिस्पृहमतिनैहलौकिकफलनिरुत्सुकेन कर्मक्षयकांक्षिणा ज्ञानलाभाऽऽचारविशुद्धिसम्यगाराधनादिसिद्धयर्थं विनयभावनं कर्तव्यम् । ततश्चापवर्गद्वारं निरर्गलम् ।
वैयावृत्त्यमुच्यते । कायपीडादुष्परिणामव्युदासार्थ कायचेष्टया द्रव्यान्तरेणोपदेशेन च व्यावृत्तस्य यत्कर्म तद्वैयावृत्त्यं । तद्दशविधं, आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञवैयावृत्त्यभेदे - न । यस्मात् सम्यग्ज्ञानादिपंचाचाराधारादाहृत्य व्रतानि स्वर्गापवर्गसुखकल्पकुजबीजानि भव्या आत्महितार्थमाचरन्ति स आचार्यः । विनयेनोपेत्य यस्मातशीलभावनाऽधिष्ठानादागमं श्रुताभिधानमधीयते स उपाध्यायः । आचाम्लवर्द्धनसर्वतोभद्रसिंहनिष्क्रीडितशातकुंभमन्दरपंक्तिविमानपंक्तिनन्दीश्वरपंक्तिजिनगुणसंपत्तिश्रुतज्ञानकनकावलिमुक्तावलिमृदङ्गमध्यवज्रमध्यकर्मक्षपणत्रैलोक्यसारादिमहोपवासानुष्ठायी तपस्वी । श्रुतज्ञानशिक्षणपरोऽनुपरतव्रतभावनानिपुणशैक्षः । रुनादिभिः क्लिष्टशरीरो म्लानः । स्थविराणां सन्ततिर्गणः । दीक्षकस्याऽऽचार्यस्य शिक्षस्याऽऽम्नायः कुलं । चातुर्वर्ण्यश्रमणनिवहः संघः । चिरकालभावितप्रव्यज्यागुणः साधुः । अभिरूपो मनोज्ञः, आचार्याणां संमतो वा दीक्षाभिमुखो वा मनोज्ञः, अथ वा विद्वान् वाग्मी महाकुलीन इति यो लोकस्य संमतः स मनोज्ञस्तस्य
१ कल्पवृक्ष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org