________________
अनगारधर्म-संयमवर्णनम् । गुप्तिप्तमित्यविरोधिपरिग्रहनिवृत्तिपरिपूर्णब्रह्मचर्यमप्रार्थितमोक्षसाधनं चारित्रानुष्ठानं यथाजातरूपमसंस्कृतमविकारं मिथ्यादर्शनाविष्टविद्विष्टं परममांगल्यं नाग्न्यमभ्युपगतस्य स्त्रीरूपाणि नित्याशुचिबीभत्सकुणपभावेन पश्यतो वैराग्यभावनावरुद्धमनोविक्रियस्यासंभावितमनुष्यत्वस्य नान्यदोषासंस्पर्शात्परीपहजयसिद्धिरिति जातरूपधारणमुत्तमश्रेयःप्राप्तिकारणमित्युच्यते । इतरे पुनर्मनोविक्रियां निरोद्धुमसमर्थास्तत्पूर्विकामंगविकृति निगहितुकामाः कौपीनफलकचीवराद्यावरणमातिष्ठन्तेऽङ्गसंवरणार्थमेव, तन्न कर्म. संवरणकारणम् ।
संयतस्य क्षुधाद्याऽऽबाधासंयमपरिरक्षणेंद्रियदुर्जयत्त्वव्रतपरिपालनभारगौरवसर्वदाऽप्रमत्तत्त्वदेशभाषांतरानभिज्ञत्त्वविषमचपलसत्त्वप्रचुरभीमदुर्गनियतैकविहारत्वादिभिररति प्रादुष्यन्ती (2) धृतिविशेषा-. निवारयतः संयमे रतिभावनाद्विषयसुखरतिमतिविषमाहारसेवेव विपाककटुकेति चिन्तयतोऽरतिपरीषहबाधाऽभावादरतिपरीषहजय इति निश्चीयते । ___ एकान्ते भवनारामादिप्रदेशे रागद्वेषयौवनदर्परूपमदविभ्रमोन्मादमद्यपानाऽऽवेशादिभिः प्रमदासु बाधमानासु तदक्षिवक्रभूविकारशृंगाराकारविहारहावविलासहासलीलाविजेंभितकटाक्षविक्षेपसुकुमारस्निग्धमृदुपीनोन्नतस्तनकलशनितान्तताम्राधरपृथुजघनरूपगुणाभरण. गन्धवस्त्रमाल्यादीन्प्रत्यनगृहीतमनोविप्लुतेर्दर्शनाभिलाषनिरुत्सुकस्य स्निग्धमृदुविशदसुकुमाराभिधानतंत्रीवंशमिश्रमधुरगीतश्रवणनिवृत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org