SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५० चारित्रसारे— वरागनानवयौवनौष्णघनस्तननितंबभुजान्तरतर्जितशीतेषु निवासं सुरतसुखाकरमनुभूतमसारत्वावबोधादस्मरतो विषादविरहितस्य संयमपरिपालनं शीतक्षमेति भाष्यते । ग्रैष्म्येण पटीयसा भास्कर किरणसमूहेन सन्तापितशरीरस्य तृष्णानशन पित्तरोगघर्म्मश्रमप्रादुर्भूतौप्ण्यस्य खेदशोषदाहाऽभ्यर्दितस्य जलभवनजलावगाहनानुलेपपरिषेकार्द्रावनितलोत्पलदलकदलीपत्रोत्क्षेपमारुतजलतूलिका चन्दनद्रव चन्द्रपादकमलकल्हारमुक्ताहारादिपूर्वानुभूत शीतलद्रव्य प्रार्थनाऽपेतचेतस उष्णवेदनातितीत्रा बहुकृत्वः परवशादवाता इदं पुनस्तपो मम कर्मक्षयकारणमिति तद्विरोधिनीं कियां प्रत्यनादराच्चारित्ररक्षणमुष्णसहनमिति समाम्नायते । प्रत्याख्यातशरीराच्छादनस्य क्वचिदप्रतिबद्धचेतसः परकृताय तनगुहागह्वरादिषु रात्रौ दिवा वा दंशमशकमक्षिकापिशुकपुत्तिकामकुणकीटपिपीलिकावृश्चिकादिभिस्तीक्ष्णपतिर्भक्षमाणस्यातितीव्र वेदनोत्पादकैरव्यथितमनसः स्वकर्मविपाकमनुचिन्तयतो विद्यामन्त्रौषधादिभिस्तन्निवृत्तिं प्रति निरुत्सुकस्याऽऽशरीरपतनादपि निश्चितात्मनः परबलप्रमर्दनं प्रति वर्त्तमानस्य मदांधगन्धसिंधुरस्य रिपुजन प्रेरितविविधशस्त्रप्रतिघातादपराङ्मुखस्य निष्प्रत्यूहविजयोपलंभनमिव कर्मारातिपृतनापराभवं प्रति प्रयतनं दंशमशकादिवाघासहनमप्रतीकारमित्याख्यायते । दंशमशकमात्रग्रहणमुपलक्षणार्थ, तेन दंशमशकादिपरितापकारणस्य सर्वस्यैवेदमुपलक्षणं, यथा काकेभ्यो दधि रक्ष्यतामिति । १ अत्र लक्षणया काकशब्दस्य दध्युपघातकोऽर्थः, " मुख्यार्थबाधे तयोगे रूढितोऽथ प्रयोजनात् । अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया " इति लक्षणालक्षणं काव्यप्रकाशप्रन्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy