________________
अनगारधर्मे-संयमवर्णनम् ।
४९
wwwwwwwwww.a
मानस्य मनसा वाऽनभिसंदधतो दुस्तरेयं वेदना महांश्च कालों दीर्घमह इति विषादमनापद्यमानस्य त्वगस्थिसिरावितानमात्रकलेवरस्यापि सतः आवश्यकक्रियादिषु नित्योद्यतस्य क्षुद्वशप्राप्तानाञ्चारकबंधस्थमनुष्यपंजरगततिर्यकप्राणिनः क्षुदभ्यर्दितान्परतंत्रानपेक्षमाणम्य ज्ञानिनो धृत्यंभसा शमकुंभधारितेन क्षुदग्निं शमयतस्तत्कृतपीडां प्रत्यविगणनं क्षुजय इत्युच्यते ।
जलस्नानावगाहनपरिषेकत्यागिनः पतत्रिवधूवासनावसथस्यातिलवणस्निग्धरूक्षविरुद्धाहारगृष्मातपपित्तज्वरानशनादिभिरुदीर्णी शरीरोन्द्रियोन्माथिनी पिपासां प्रत्यनाद्रियमाणप्रतीकारमनसो निदाधे पटुतपनकिरणसंतापिनोप्यटव्यामासन्नेष्वपि हृदेष्वप्कायिकजीवपारहारेच्छया जलमनाददानस्य सलिलसेकविवेकम्लानां लतामिव ग्लानिमुपगतां गात्रयष्टिमवगणय्य तपःपरिपालनपरस्य भिक्षाकालेऽपीगिताकारादिभिर्योग्यमपि पानं पातुं परमचोदयतः परमधैर्यकुंभधारितशीतलसुगन्धिप्रतिज्ञातोयेन विध्यापयतस्तृष्णाग्निशिखां संयम परत्वं पिपासासहनमित्यवसीयते । __परित्यक्तवाससः पक्षिवदनवधारिताऽऽलयस्य शरीरमात्राधिकरणस्य शिशिरवसंतजलदागमादिकालवशाद्वृक्षमूले पथि गुहादिषु पतितप्रालेयतुषारलवव्यतिकरशिशिरपवनाभ्याहतमूर्तेस्तत्प्रतिक्रियासमर्थद्रव्यान्तराग्न्यायनभिसंधानान्नारकदुःसहशीतवेदनाऽनुस्मरणात् तत्प्रतिचिकीर्षायां परमार्थविलोपभयाद्विद्यामंत्रौषधपर्णवल्कलत्वक्तणाजिनादिसंबंधात् व्यावृत्तमनसः परकीयमिव देहं मन्यमानस्य धृतिविशेषप्रावरणस्य गर्भागारेषु धपप्रवेकपुष्पप्रकरप्ररूपितप्रदीपप्रभेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org