________________
चारित्रसारे
उक्तं हि
परिषोढव्या नित्यं दर्शनचारित्ररक्षणे निरतैः । संयमतपोविशेषास्तदेकदेशाः परीषहाख्याः स्युः॥ इत्युक्तत्वात्संयमतपसोर्मध्ये परीषहा उच्यन्ते । कर्मागमद्वाराणि संवृण्वंतो जैनेन्द्रान्मार्गान्मा च्योप्महीति पूर्वमेव परीषहान्विजयन्तो जितपरीषहाः संतस्तैरनभिभूयमानाः प्रधानसंवरमाश्रित्याप्रतिबंधेन क्षपकश्रेण्यारोहणसामर्थ्य प्रतिपद्यन्ते । अभिन्नोत्साहाः सकलसांपरायिकप्रध्वंसनशक्तयो ज्ञानध्यानपरशुच्छिन्नमूलानि कमाणि विधूय प्रस्फोटितपक्षरेणव इव पतत्रिण उर्द्ध व्रतीत्येवमर्थ परिषोढव्याः परीषहाः ।
क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याssक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानीति क्षुधादयो द्वविंशतिपरीषहाः । त एते बाह्याभ्यन्तरद्रव्यपरिणामाः शारीरमानसप्रकृष्टपीडाहेतवस्तद्विजये विदुपा संयतेन तपस्विना मोक्षार्थिना प्रयत्नः कार्यः । तद्यथा-निवृत्तसंस्कारविशेषस्य शरीरमात्रोपकरणसन्तुष्टस्य तपःसंयमविलोपं परिहरतः कृतकारितानुमतसंकल्पितोद्दिष्टसंक्लिष्टक्रयागतप्रत्यादत्तपूर्वकर्मपश्चात्कर्मदशविधदोषविप्रमुक्तैषणस्य देशकालजनपदव्यवस्थापेक्षस्यानशनाध्वरोगतपःस्वाध्यायश्रमवेलातिकमावमोदर्यासद्वेद्योदयादिभ्यो नानाssहारेन्धनोपरमे जठरांत्रदाहिनीमारुतांदोलिताऽग्निशिखेव समंताच्छरीरेन्द्रियहृदयसंक्षोभकरी क्षुदुत्पद्यते । तस्याः प्रतीकारं त्रिप्रकारमकाले संयमविरोधिभिर्वा द्रव्यैः स्वयमकुर्वतोऽन्येन क्रियमाणमसेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org