SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनगारधर्म-संयमवर्णनम् । ४७ लिंगिनो भवन्ति, द्रव्यलिंग प्रतीत्य भाज्याः । लेश्यायां पुलाकस्यो. त्तरास्तिस्रो लेश्या भवन्ति । वकुशप्रतिसेवनाकुशीलयोः षडपि, कषायकुशीलस्य परिहारविशुद्धस्य चतस्त्र उत्तराः, सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्कैव केवला भवति, अयोगिनः शैले शितां प्रतिपन्ना अलेश्याः । उपपादे, पुलाकस्योत्कृष्ट उपपादोऽष्टादशसागरोपमोत्कृष्टस्थितिषु देवेषु सहस्रारे, वकुशप्रतिसेवना: कुशीलयोविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः, कषायकुशीलनिग्रन्थयोस्त्रयस्त्रिंशत्सागरोपस्थितिषु सर्वार्थसिद्धौ च सर्वेषामपि जघन्यः सौधर्मकल्पे द्विसागरोपमस्थितिषु स्नातकस्य निर्वाणमिति । स्थानेऽसंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छिद्यते। कषायकुशीलस्ततोऽसंख्येयानि गच्छत्येकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति, ततो वकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत उद्धृमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते, अत उर्द्धमेकस्थानं गत्वा स्नातको निर्वाणं प्राप्नोत त्येषां संयमलब्धिरनन्तगुणा भवतीति । अथ परीषहजयप्रकरणं प्रस्तौति । ... संयतन तपस्विना दर्शनचारित्ररक्षणार्थ परिषोडव्याः परीषहाः। Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy