________________
चारित्रसारेभूषावेषायुधरहितं तत्सामान्ययोगात्सर्वेषु पुलाकादिषु निर्ग्रन्थशब्दो युक्तः । ___पुलाकादिनिम्रन्था उत्तरोत्तरगुणप्रकर्षवृत्तिविशेषाः संयमादिभिरष्टाभिरनुयोगैाख्येयाः । तद्यथा-संयमः, श्रुतं, प्रतिसेवना, तीर्थ, लिंगं, लेश्या, उपपादः, स्थानमिति विकल्पतः पुलाकादयः साध्याः । तत्र संयमे पुलाकवकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति । कषायकुशीला: सामायिकच्छेदोपस्थापनयोः परिहारविशुद्धिसूक्ष्मसांपराययोश्च भवन्ति । निर्ग्रन्थाः स्नातकाश्चैकस्मिन्नेव यथाख्यातसंयमे भवन्तीति । श्रुते पुलाकवकुशप्रतिसेवनाकुशीला उत्कर्षणाभिन्नाक्षरदशपूर्वधराः कषायकुशीला निर्ग्रन्थाश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु, वकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचन मातरः । स्नातका अपगतश्रुताः केवलिनः । प्रतिसेवनायां पंचानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगालादन्यतमं प्रतिसेवमानः पुलाको भवति । वकुशो द्विविधः, उपकरणवकुशः, शरीरवकुशश्चेति । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तो बहुविशेषोपयुक्तोऽपकरणाकांक्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणवकुशो भवति । शरीर-संस्कारसेवी शरीरवकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । लिंगे, द्रव्यभावभेदाल्लिंगं द्विविधं, भावलिंगं प्रतीत्य सर्वे पंचाऽपि निर्ग्रन्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org