________________
अनगारधर्मे-संयमवर्णनम् । साधंकुशाकर्षणेन वशीकरणमिन्द्रियजयः । स चास्रवानुप्रेक्षायां वक्ष्यते।
संयमो ह्यात्महितस्तमनुतिष्ठन्निहैव पूज्यते। परत्र किमत्र वाच्यं । असंयतः प्राणिवधविषयमार्गेषु नित्यं प्रवृत्तो मूर्तिमदशुभकर्मैवाय. मिति साधुजनविनिंद्यमानो दुष्कर्म संचिनुते। ___ संयमिनो नैर्ग्रन्थ्यधारिणः पंचविधाः । पुलाकाः, वकुशाः, कुशीला:, निर्ग्रन्थाः, स्नातकाश्चेति । तत्रोत्तरगुणभावनोपेतमनसः व्रतेष्वपि कचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धपुलाकसाहश्यात्पुलाका इत्युच्यन्ते । नैर्ग्रन्थ्यमुपस्थिता अखंडितव्रताः शरीरोपकरणविभूषणानुवर्तिनो वृद्धियशःकामाः शातगौरवाश्रिता अविविक्त परदाराश्च (?) छेदशवलयुक्ता वकुशाः । शवलपर्यायवाची बकुश. शब्द इति । कुशीला द्विविधाः, प्रतिसेवनाकुशीलाः, कषायकुशीलाश्चेति । तत्राविविक्तपरिग्रहाः(१) परिपूर्णमूलोत्तरगुणाः कथंचिदुत्तरगुणविरोधिनः प्रतिसेवनाकुशीलाः, ग्रीष्मे जंघाप्रक्षालनादिसेवनवदिति । वशीकृतान्यकषायोदयाः संज्वलनमात्रतंत्राः कषायकुशीला इति । यथोदके दंडराजिराश्वेव विलयमुपयाति तथाऽनभिव्यक्तोदयकर्माण ऊर्द्ध मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनभाजो निर्ग्रन्था इति । ज्ञानावरणादिघातिकर्मक्षयादाविर्भूतकेवलज्ञानाद्यतिशयविभूतयः सयोगि. शीलेशिनो नवलब्ध्यास्पदाः केवलिनः स्नातका इति । एते प्रकृष्टाप्रकृष्टमध्यमचारित्रभेदे सत्यपि नैगमनयापेक्षया पंचापि निर्ग्रन्था इत्युच्यन्ते । यथा षोडशत्रयोदशदशवर्णिकादिषु सुवर्णशब्दोऽवि. शिष्टो वर्त्तते तथा निर्ग्रन्थशब्दोऽपि । सम्यग्दर्शनं निग्रन्थरूपं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org