SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५२. चारित्रसारे- दरश्रोत्रस्य कूर्मवत्संवृतेन्द्रियहृदय विकारस्य ललितस्मित मृदुकथितसविकारवीक्षणप्रहसनमदमंथर गमनमन्मथशरव्यापारविफलीकरणचरणस्य संसारार्णवव्यसनपातालरौद्रदुःखागाधाऽऽवर्त्तकुटिलाध्यायिनः स्त्रैणानर्थनिवृत्तिः स्त्रीपरीषहजय इति कथ्यते । अन्यवादिपरिकल्पिता देवताविशेषा ब्रह्मादयस्तिलोत्तमादिदेवगणिकारूप संपद्दर्शनलोललोचनविकाराः स्त्रीपरीषहपंकान्नोद्धर्तुमात्मानं समर्थः । दीर्घकालाऽभ्यस्तगुरुकुल्ब्रह्मचर्यस्याधिगतबंधमोक्षपदार्थतत्त्वस्य कषायनिग्रहपरस्य भावनार्पितमनसः संयमायतनादिभक्तिहेतोर्देशान्तरातिथेर्गुरुणाऽभ्यनुज्ञातस्य नानाजनपदव्याहारव्यवहाराभिज्ञस्य ग्राम एकरात्रं नगरे पंचरात्रं प्रकर्षेणावस्थातव्यमित्येवं यातस्य वायोरिव निःसंगतामुपगतस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतः क्लेशक्षमस्य भीमाटवीप्रदेशेषु निर्भयत्वात्सिंहस्येव सहायकृत्यमन - पेक्षमाणस्य परुषशर्करा कंटकादिव्यथनजातपादखेदस्यापि सतः पूर्वोचितयान वाहनादिगमनमस्मरतः सम्यक् चर्यादोषं परिहरतः चर्यापरीषहजयो वेदितव्यः । श्मशानोद्यानशून्यायतनगिरिगुहागहारादिष्वनभ्यस्तपूर्वेषु विदितसंयमक्रियस्य धैर्यसहायस्योत्साहवतो निषद्यामधिरूढस्य प्रादुर्भूतोपसर्गोग्ररोगविकारस्यापि सतस्तत्प्रतिदेशादविचलतो मंत्रविद्यादिलक्षणप्रतीकारानपेक्षमाणस्य क्षुद्रजन्तुप्रायविषमदेशाश्रयात्काष्ठोपल निश्चलस्यानुभूतमृदुसंस्तरणादिस्पर्शसुखमवगणयतः प्राणिपीडापरिहारोद्यतस्य ज्ञानध्यानभावनाधीनधियः संकल्पितवीरासनोत्कुटिकासनादिरतेरासनदोषजयान्निषद्यातितिक्षत्याख्यायते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy