________________
अनगारधर्मे - संयमवर्णनम् ।
४३
मूर्च्छा परिग्रहः, बाह्याभ्यन्तरोपधि संरक्षणादिव्यावृत्तिर्मूर्च्छा । क्षेत्र वास्तुधनधान्यद्विपदचतुष्पदयानशयनासन कुप्पभांडानि दशविवश्चेतनाचेतनभेदलक्षणो बाह्यपरिग्रहः । मिथ्यात्वक्रोधमानमायालोमहास्यरत्यरतिशोकभयजुगुप्सा वेदरागद्वेष चतुर्दशभेदोऽभ्यन्तरपरिग्रहः । एतस्मान्मनसः कृतकारितानुमोदितेन वचसः कृतकारितानुमोदितेन कायस्य कृतकारितानुमोदितेन च विरतिरपरिग्रहलक्षणं व्रतम् । तदेव स्वर्गमोक्षकसाधनं सर्वेषां गुणानामलंकरणं, निष्परि ग्रहव्रतिनं सर्वेऽपि सन्मानयन्ति स सर्वैश्च समभिवन्दनीयः संपूजनीयश्च भवति, तस्य नामग्रहणेऽपि वद्धांजलिर्भवति लोकः । परिग्रहवान् यथा शकुनिर्गृहीतमांसखंडोऽन्येषां तदर्थिनां पतत्रिणामभिभवनीयः, तथा तस्करादीनामभिभवनीयो मार्यश्च भवति, परिग्रहार्जननिमित्तं निजामिजनविद्यावृत्तं विहाय केचन जडधियों नीचतामुपगच्छन्ति, न चाऽस्य तृप्तिर्भवतीन्धनैरिवाऽग्नेर्लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दति, लुब्धोऽयमिति गर्हितश्च भवतीति नीचवृत्त्या समुपार्जनीयमनित्यं दुःखकारणं परिग्रहं परित्यज्याकिंचन्यवृत्त्या नित्यमनन्तसुखसाधनं मोक्षमार्गमुपार्जयन्त्यत्महितैषिणः । आकिंचन्यत्रतद्रढिमार्थे पंच भावना भवंति ।
पंचानां स्पर्शनरसनत्राणचक्षुः श्रोत्राणामिष्टेषु विषयेषूपनिपतितेषु रागवर्जनमनिष्टेषु विषयेषूपनिपतितेषु द्वेषवर्जनमिति ।
द्रढिमा " इत्यत्र
"L
.१ पक्षी । २ तिरस्करणीयः । ३ कुल । ४ मूर्खाः । ५
6s
इमनिच् " प्रत्ययः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org