________________
४२
चारित्रसारे
शून्यागारगिरिगुहातरुप्रकोटरादिष्वावासः, परकीयेषु मोचितेष्वा • वासः परेषां मनुष्यव्यन्तरादीनामुपरोधाकरणं, आचारसूत्रमार्गेण भैक्ष्यशुद्धिः, ममेदं तवेदमिति लक्षणो विसंवादः, न विसंवादोऽविसंवादः, सधर्मिभिरविसंवाद इति ।
मैथुनमब्रह्म, स्त्रीपुंसोर्वेदोदये वेदनापीडितयोर्यत्कर्म तन्मैथुनमथः वैकस्यापि चारित्रमोहोदयोदृक्तरागस्य हस्तादिसंघट्टनेऽस्ति मैथुनमिति । अहिंसादिगुणबृंहणाद्ब्रह्म न ब्रह्म अब्रह्म तिर्यङ्मनुष्यदेवाऽचेतनभेदाच्चतुर्विधस्त्रीभ्यो मातृसुताभगिनीभावनया मनोवाक्कायप्रत्येककृतकारितानुमोदितभेदेन नवविधाद्विरतिश्चतुर्थव्रतं । तदेव स्वर्गमोक्षसाधनं, ब्रह्मचारिणं भूमिस्थमपि साक्षादेव इव मन्यते लोकः । असंयतोऽपि ततो मानार्हो भवति, तस्मिन्प्रतिष्ठिताः सर्वे गुणाः, विद्यादेवताश्च परिगृहीतब्रह्मव्रतस्य किंकरभावमुपयाति । अब्रह्मचारी मदविभ्रमोन्मथितचित्तो वनगज इव वासितवंचितो विवश वधबंधपरिक्लेशादीननुभवति, मोहाभिभूतत्वाच्च कार्याकार्यानभिज्ञो न किंचित्कुशलमाचरति, परांगनालिंगनसंगकृत रतिश्चे हैव वैरानुबंधिनो लिंगच्छेदनवधबन्धन सर्वस्वहरणादीनपायानं प्राप्नोति, प्रेत्य चाशुभां गतिमश्नुते', तृणवलघुश्च भवतीत्यतः स्त्रीविरतिरात्महिता । ब्रह्मचर्यव्रतनिश्चलीकरणार्थे पंच भावना भवंति । स्त्रीरागकथाश्रवणवर्जनं तन्मनोहरांगनिरीक्षणविरहः, पूर्वरतानुस्मरणव्यपोहः, वृष्येष्टर सानुभवनिरासः, स्वशरीरसंस्कारत्यागश्चेति ।
१ वनकरिणी । २ दुःखानि । ३ लभते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org