________________
शीलसप्तकवर्णनम् ।
२३ नित्यमरणं तद्भवमरणं चेति । तत्र नित्यमरणं समये समये स्वायुरादीनां निवृत्तिः । तद्भवमरणं भवांतरप्राप्तिरनन्तरोपश्लिष्टपूर्वभवविगमनम् । अत्र पुनस्तद्भवमरणं ग्राह्यं मरणान्तः प्रयोजनमस्या इति मारणांतिकी । बाह्यस्य कायस्याभ्यंतराणां कषायानां तत्कारणहापनया क्रमेण सम्यग्लेखना सल्लेखना । उपसर्गे दुर्भिक्षे जरसि निःप्रतिक्रियायां धर्मार्थ तनुत्यजनं सल्लेखना । ततो नित्यप्रार्थितसमाधिमरणे यथाशक्ति प्रयत्नं कृत्वा शीतोष्णाद्युपश्लेषे सति तपःस्थो यथा शीतोष्णादौ हर्षविषादं न करोति तथा सल्लेखनां कुर्वाणः शीतोष्णादौ हर्षविषादमकृत्वा स्नेहं संगवैरादिकं परिग्रहं च परित्यज्य विशुद्धचित्तः स्वजनपरिजने क्षन्तव्यं निःशल्यं च प्रियवचनैविधाय विगतमानकषायः कृतकारितानुमतमेनः सर्वमालोच्य गुरौ महानतमामरणमारोप्यारतिदैन्यविषादभयकालुप्यादिकमपहाय सवोत्साहमुदीर्य श्रुतामृतेन मनः प्रसाद्य क्रमेणाहारं परिहाय ततः स्निग्धपानं तदनन्तरं खरपानं तदनु चोपवासं कृत्वा गुरोः पादमूले पंचनमस्कारमुच्चारयन्पंचपरमेष्ठिनां गुणान्स्मरन्सर्वयत्नेन तनुं त्यजे. दियं सल्लेखना संयतस्यापि । __ अथ सल्लेखनाया मरणविशेषोत्पादनसमर्थाया असंक्लिष्टचित्ते. नारभ्यायाः पंचातीचारा भवन्ति । जीविताशंसा, मरणाशंसा, मित्रानुरागः, सुखानुबन्धः, निदानं चेति । तत्र शरीरमिदमवश्यं हेयं जलबुद्धदवदनित्यमस्यावस्थानं कथं स्यादित्यादरो जीविताशंसा । आशंसाऽऽकांक्षणमभिलाष इत्यनर्थान्तरं । रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लेशस्य मरणं प्रति चित्तप्रणिधानं मरणाशंसा । व्यसने
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org