________________
२२
चारित्रसारे
मन्वयत्तिश्च सैव । स्वाध्यायस्तत्त्वज्ञानस्याध्ययनमध्यापनं स्मरणं च । संयमः पंचाणुव्रतप्रवर्त्तनम् । तपोऽनशनादिद्वादशविधानुष्ठानम् ।
इत्यार्यषटर्मनिरता गृहस्था द्विविधा भवति । जातिक्षत्रियास्तीर्थक्षत्रियाश्चेति । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः । तीर्थक्षत्रियाः स्वजीवनविकल्पादनेकधा भिद्यते ।
वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखंडधारिणो निरतिशयतपःसमुद्यता भवन्ति ।
भिक्षवो जिनरूपधारिणस्ते बहुधा भवति । अनगारा यतयो मुनय ऋषयश्चेति । तत्रानगाराः सामान्यसाधव उच्यन्ते । यतय उपशमक्षपकश्रेण्यारूढा भण्यन्ते । मुनयोऽवधिमनःपर्ययकेवलज्ञानिनश्च कथ्यन्ते । ऋषय ऋद्धिप्राप्तास्ते चतुर्विधाः, राजब्रह्मदेवपरमभेदात् । तत्र राजर्षयो विक्रियाऽक्षीणर्द्धिप्राप्ता भवति । ब्रह्मर्षयो बुद्धचौषधिऋद्धियुक्ताः कीर्त्यन्ते । देवर्षयो गगनगमनर्द्धिसंयुक्ताः कथ्यन्ते । परमर्षयः केवलज्ञानिनो निगद्यते ।
अपि च । देशप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्रोद्गतर्द्धि
रारूढश्रेणियुग्मोऽजनि यतिरनगारोऽपरः साधुरुक्तः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्ति
प्राप्तो बुद्धयौषधीशो वियवयनपदुर्विश्ववेदी क्रमेण ॥ उक्तैरुपासकैर्मारणान्तिकी सल्लेखना प्रीत्या सेव्या । स्वपरिणामोपात्तस्यायुष इन्द्रियाणां बलानामुच्छासनिःश्वासस्य च कदलीघातस्वपाकच्युतिकारणवशात्संक्षयो मरणं, तच्च द्विविधं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org