________________
चारित्रसारे
सहायत्वमुत्सवे संभ्रम इत्येवमादि सुकृतं बाल्ये सह पांशुक्रीडनमित्येवमादीनामनुस्मरणं मित्रानुरागः । एवं मया भुक्तं शयितं क्रीडितमित्येवमादि प्रीतिविशेषं प्रति स्मृतिसमन्वाहारः सुखानुबन्धः । विषयसुखोत्कर्षाभिलाष भोगाकांक्षतया नियतं चित्तं दीयते तस्मिन् तेनेति वा निदानमिति ॥
२४
इति श्रीमच्चामुंडरायप्रणीते भावनासंग्रहे चारित्रसारे सागारधर्मः
समप्तोऽयम् ।
षोडशभावनाप्रकरणम् ।
उक्तैरेकादशोपासकैर्वक्ष्यमाणदशधर्माधारैश्च मनुष्यगतौ केवलज्ञानोपलक्षितजीवद्रव्यसहकारिकारण संबंधप्रारंभस्यानंतानुपमप्रभावस्याचिन्त्यविशेषविभूतिकारणस्य त्रैलोक्यविजयकरस्य तीर्थकरनामगोत्रकर्मणः कारणानि षोडश भावना भावयितव्या इति । तद्यथादर्शन विशुद्धता, विनयसंपन्नता, शीलवतेष्वनतीचारः, अभीक्ष्णज्ञानोपयोगः, संवेगः, शक्तितस्त्यागः, शक्तितस्तपः, साधुसमाधिः, वैयावृत्यकरणं, अर्हद्भक्तिः, आचार्यभक्तिः, बहुश्रुतभक्तिः, प्रवचनभक्तिः, आवश्यकापरिहाणिः, मार्गप्रभावना, प्रवचनवात्सल्यमिति । तत्र जिनोपदिष्टे नैर्ग्रथ्ये मोक्षवर्त्मनि रुचिः सम्यग्दर्शनं, विशुद्धिं विना दर्शनमात्रादेव तीर्थकर नामकर्मबंधो न भवति, त्रिमूढापोढाष्टमदादिरहितत्त्वात् । उपलब्धनिजस्वरूपस्य सम्यग्दर्शनस्य प्रथमद्वितीयोपशमकवेदकक्षायिकान्यतमविशिष्टस्य ज्ञानदर्शनतपश्चारित्रेषु त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org