SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ षोडशभावनाप्रकरणम् । २५ द्वत्सु च विनये, अभीक्ष्णज्ञानोपयोगसंवेगयुक्तत्वे, साधुभ्यः प्रासुकप्रदाने, द्वादशविधतपसि, साधूनां समाधिवैयावृत्त्यकरणे, अर्हत्सु व्रतशीलावश्यकसंपन्नाचार्येषु च बहुश्रुतेषु प्रवचने च भक्ती, प्रवचनप्रभावने, प्रवचनवत्सलत्वे प्रवर्त्तनं विशुद्धता । एकाऽपि सा दर्शनविशुद्धता तीर्थकरनामबंधस्य कारणं भवति, शेषभावनानां तत्रैवान्तर्भावादिति दर्शनविशुद्धता व्याख्याता । सम्यग्दर्शनादिषु मोक्षसाधनेषु तत्साधकेषु गुर्वादिषु च स्वयोग्यवृत्त्या सत्कार आदरः कषायनोकषायनिवृत्तिर्वा विनयसम्पन्नता । अहिंसादिषु व्रतेषु तत्परिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः कायवाङ्मनसा शीलवतेप्वनतिचार इति । मत्यादिविकल्पं ज्ञानं जीवादिपदार्थस्वतत्त्वविषयं प्रत्यक्षपरोक्षलक्षणमज्ञाननिवृत्यव्यवहितफलं हिता. हितानुभयप्राप्तिपरिहारोपेक्षाव्यवहितफलं यत्तस्य भावनायां नित्ययुक्तताऽभीक्ष्णज्ञानोपयोग इति । शारीरं मानसं च बहुविकल्पं प्रियविप्रयोगाप्रियसंयोगेप्सितालाभादिजनितं संसारदुःखं यदतिकष्टं ततो नित्यभीरता संवेग इति । आहारो दत्तः पात्राय तस्मिन्नहनि तत्प्रीतिहेतुर्भवति; अभयदानमुपपादितमेकभवव्यसननोदनकर, सम्यरज्ञानदानं पुनरनेकभवशतसहस्रदुःखोत्तारणकारणमतस्तत्रिविधहाराभयज्ञानदानभेदेन यथाविधि प्रतिपाद्यमानं त्याग इत्युच्यते । शरीरमिदं दुःखकारणमनित्यमशुचि नास्य यथेष्टं भोगविधिना परिपोषो युक्तः, अशुच्यपीदं गुणरत्नसंचयोपकारीति विचिन्त्य विनिवृत्तविषयसुखाभिषंगस्य कार्य प्रत्येतद्भुतकमिव नियुजानस्य यथाशक्तिमार्गाविरोधकाय क्लेशानुष्ठानं तप इति । यथा भाण्डागारे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy