Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 13
________________ योगदृष्टिसमुच्चयः अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥ एवं क्रमेणैषा=सद्दृष्टिः सतां मुनीनां भगवत्पतञ्जलि भदन्त भास्करबन्धुभगवद्दत्तादीनां योगिनामित्यर्थः । मता = इष्टा । एतत्साकल्यं च प्रतिदृष्टि दर्शयिष्यामः ॥ १६ ॥ साम्प्रतं दृष्टिशब्दार्थाभिधानायाह सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥१७॥ १३ सच्छ्रद्धासङ्गतो बोधः इत्यनेनासच्छ्रद्धाव्यवच्छेदमाह । असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदूहात्मिका गृह्यते, तद्वैकल्यात् सच्छ्रद्धासङ्गतः इति । एवंभूतो बोधो = अवगमः । किमित्याह - दृष्टिरित्यभिधीयते दर्शनं दृष्टिरिति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाह-असत्प्रवृत्तिव्याघातात् इति तथा श्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन । किमित्याहसत्प्रवृत्तिपदावहः इति । शास्त्राऽविरुद्धप्रवृत्तिपदावहोऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद्दोष इति ॥ १७ ॥ एष च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाह इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ १८ ॥ इयम्=अनन्ततरोदितलक्षणा दृष्टि: । आवरणापायभेदाद्=आवरणापगमभेदेन परिस्थूरनीत्या । अष्टविधा स्मृता पूर्वाचार्यै: सामान्येन= सूक्ष्मेक्षिकामनादृत्य । विशेषास्तु भेदाः पुनः सद्दृष्टेर्भूयांसो=अतिबहवः सूक्ष्म १४ योगदृष्टिसंग्रह भेदतो अनन्तभेदत्वाद्दर्शनादीनां मिथः षट्स्थानपतितत्वाभिधानादिति ॥१८॥ इह च दृष्टिसमुच्चये प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९॥ प्रतिपातयुता=भ्रंशोपेताः । आद्याश्चतस्त्रो दृष्टयो मित्रादिरूपाः । एता अपि च प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव ताभ्यस्तदुत्तरभावादिति । नोतरास्तथा =न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः । यत एवं सापाया अपि दुर्गतिहेतुत्वेन, एतास्ता = एता एव । कथमित्याह प्रतिपातेन = भ्रंशेन, नेतरा=न स्थिराद्याः सापाया इति आह कथं श्रेणिकादीनामेतदप्रतिपातादपाय: ? उच्यते एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य सापाया अपि । तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सद्दृष्ट्यघाते सत्यप्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाऽऽशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ॥१९॥ इहापि - प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२०॥ प्रयाणभङ्गाभावेन इति कान्यकुब्जादिगमनेऽनवरतप्रयाणकगमनेनापि । निशि=रात्रौ । स्वापसमः पुनः = स्वापतुल्यस्तु । किमित्याह-विघातः = प्रतिबन्धः, दिव्यभवतः = देवजन्मनः सकाशात्, चरणस्य = चारित्रस्य, उपजायते तथाविधौदयिकभावयोगेन, तदभावे तु पुनस्तत्रैव प्रवृत्तिः, स्वापविगमेऽनवरतप्रयाणे च प्रवृत्तकान्यकुब्जगन्तृगमनप्रवृत्तिवत् ॥२०॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131