Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 24
________________ ३६ योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः तत्तथाविधम् । अत एवाह भवाभिनन्दिविषयम् एतद्, भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोषतोऽपायगमनाभिमुखमित्यर्थः ७५॥ भवाभिनन्दिलक्षणमाह विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह-हिताहितविवेकाऽन्धाः एतद्रहिता इत्यर्थः । अत एवाह-खिद्यन्ते साम्प्रतेक्षिण:-वर्तमानदर्शिनः सन्त इति ॥७८॥ तथा च क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥७६॥ जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥७९॥ जन्म=प्रादुर्भावलक्षणं, मृत्यु:=प्राणत्यागस्वरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणः, रोगो विशुचिकाद्यातङ्कः, शोकः= इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्ग्रहादिपरिग्रहः, एभिः उपद्रुतं= कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं, नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमोहतो हेतोरिति ॥७९॥ तथाह्यमीषां किमित्याह क्षुद्रः कृपणः । लाभरतिः याञ्चाशीलः । दीनः सदैवाऽकल्याणदर्शी । मत्सरी परकल्याणदुःस्थितः । भयवान् नित्यभीतः । शठो मायावी । अज्ञो मूर्खः । भवाभिनन्दी=संसारबहुमानी । स्याद् एवम्भूतो, निष्फलारम्भसङ्गतः सर्वत्राऽतत्त्वाभिनिवेशादिति ॥७६॥ यदि नामैवं ततः किमित्याहइत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् ॥७७॥ इत्येवं भवाभिनन्दिपरिणामे सति, अस्याऽसत्परिणामत्वात् । असत्परिणामानुविद्धो बोध: सामान्येन न सुन्दरः । कुत इत्याह-तत्सङ्गादेव विवक्षिताऽसत्परिणामसम्बन्धादेव, नियमाद् नियमेन । किमिवेत्याहविषसम्पृक्तकान्नवत् इति निदर्शनमात्रम् ॥७७॥ फलत एतदेवाह कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाऽऽकृष्टाः कच्छूकण्डूयकादिवत् ॥८॥ कुकृत्यं प्राणातिपातारम्भादि, कृत्यमाभाति मोहात्, कृत्यं च= अहिंसाऽनारम्भादि च, अकृत्यवत्सदा आभाति मोहादेव । दुःखे समारम्भादौ, सुखधिया सुखबुद्ध्या आकृष्टा आकर्षिताः । किंवदित्याह-कच्छूकण्डूयकादिवत् कच्छू=पामा तस्याः कण्डूयकाः, कण्डूयन्त इति कण्डूयकाः, आदिशब्दात्कृमिप्रतुद्यमानाग्निसेवककुष्ठिपरिग्रहः ॥८०॥ अमुमेवार्थ स्पष्टयन्नाहयथा कण्डूयनेष्वेषां धीन कच्छूनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥८१॥ एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताहितविवेकाऽन्धाः खिद्यन्ते साम्प्रतेक्षिणः ॥७८॥ एतद्वन्तो वेद्यसंवेद्यपदवन्तः । अत एव कारणात् । इह लोके,

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131