Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 65
________________ ११७ ११८ योगदृष्टिसंग्रह योगावतारद्वात्रिंशिका असम्प्रज्ञातनामा तु संमतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ॥२१॥ दुःखात्यन्तविमुक्त्यादि नान्यथा स्याच्छ्रतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्निति वृत्तिक्षयौचिती ॥२३॥ असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः संमतः, सयोग्ययोगिकेवलित्वकाले मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् । तदुक्तं असम्प्रज्ञात एषोऽपि समाधिर्गीयतेऽपरः । निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ॥ इति । 'धर्ममेघः' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशक्लाकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः । तदुक्तं-प्रसङ्ख्याने प्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति (पातं. ४-२९) । एवमन्येषामपि तत्ततन्वसिद्धानां शब्दानामर्थोऽत्र यथायोग भावनीयः । तदाह धर्ममेघोऽमृतात्मा च भवचक्रशिवोदयः । सत्त्वानन्दपरश्चेति योज्योऽत्रैवार्थयोगतः ॥ अस्माद्=वृत्तिसङ्क्षयात् फलीभूतात् । सर्वतः सर्वः प्रकारैः । पापगोचर:=पापविषयः । अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिर्वृत्तेर्महारम्भपरिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ॥२१॥ दुःखेति । अन्यथा दुःखात्यन्तविमुक्त्यादि श्रुतोदितं सिद्धान्त प्रतिपादितं न स्यात् । तदाह अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्रागतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ (यो. बि. ४१७) न च तत्त्वज्ञानेनैव दुःखात्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं तस्यात्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धे त्वकरणनियमस्यावश्याश्रयणीयत्वादिति भावः । अस्मिन् तत्तत्पापस्थानाकरणनियमे च सिद्धः परापराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया प्रतिष्ठितो भाव:=अन्त:करणपरिणामो हेतुः । तदुक्तं हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानं करुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ इति । (यो. बि. ४२८) इति एवमकरणनियमोपपत्तौ वृतिक्षयौचिती-वृत्तिक्षयस्य न्याय्यता हेत्वकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेस्तत्प्रारभावापगमस्यापि योग्यताविगमाख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य फलनियतत्वात् । तदुक्तं मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यतापगमाद्दग्ध्वा ततः कल्याणमश्नुते ॥ इति । (यो. बि. ४२८) ननु यद्येक एव योगस्तदा कथं भेदः ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आह योगे जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ॥२४॥ ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः ॥२२॥ ग्रन्थिभेद इति । यथाऽयम् अकरणनियमो बन्धहेतुं मिथ्यात्वं परम्= उत्कृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति आश्रित्य ग्रन्थिभेदे निरुप्यते । एवं नरकादिगतिषु निवर्तनीयासु तद्धेतुगोचरो नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः ॥२२॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131