Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 68
________________ योगावतारद्वात्रिंशिका प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्याप्युक्तः परमानन्दभागतः ॥३२॥ १२३ प्रकृत्येति अत= उक्तहेतो: सूत्रे = जिनप्रवचने प्रकृत्या= निसर्गेण । भद्रको=निरुपमकल्याणमूर्तिः । शान्तः = क्रोधविकाररहितः । विनीतः= अनुद्धतप्रकृतिः । मृदुः=निर्दम्भः । उत्तमः = सन्तोषसुखप्रधानः । मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनम् उक्तः शिवराजर्षिवदिति ॥३२॥ इति योगावतारद्वात्रिंशिका *** मित्रादृष्टिद्वात्रिंशिका योगावतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूपयन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राद्वेष एव च ॥ १ ॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं = स्वल्पो बोधः । तृणाग्निकणोद्योतेन सदृशः योगाङ्गं च यमो भवेद् इच्छादिभेदः । अखेदोऽव्याकुलतालक्षणः देवकार्यादौ आदिशब्दाद् गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिँस्तथा परितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्चापरत्र त्वदेवकार्यादौ तथा तत्त्वाऽवेदितया मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाङ्करानुदयात्तथाविधानुष्ठानमधिकृत्यात्र स्थितस्य हि करुणाांशबीजस्यैवेषत्स्फुरणमिति ॥१॥ यमस्वरूपं सभेदमभिधत्ते अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । दिक्कालाद्यनवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२॥ अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा तदभावः अहिंसा । वाङ्मनसोर्यथार्थत्वं सूनृतम् । परस्वापहरणं स्तेयं तदभावः अस्तेयं । उपस्थ

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131