Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 74
________________ तारादित्रयद्वात्रिंशिका मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह तारायां तु मनाक् स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥१॥ तारायामिति । तारायां पुनर्दृष्टौ । मनाग्= ईषत् स्पष्टं - मित्रापेक्षया दर्शनम् । शुभाः=प्रशस्ताः । नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे=पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः । तथा तत्त्वगोचरा = तत्त्वविषया जिज्ञासा=ज्ञातुमिच्छा | अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यात् ॥१॥ नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च योगाचार्यैरुदाहृताः ॥२॥ नियमा इति । शौचं शुचित्वं तद् द्विविधं, बाह्यमाभ्यन्तरं च, बाह्यं मृज्जलादिभिः कायप्रक्षालनम्, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोष : = सन्तुष्टिः | स्वाध्याय: = प्रणवपूर्वाणां मन्त्राणां जपः । तपः = कृच्छ्रचान्द्रायणादि । देवताप्रणिधानम् = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । एते योगाचार्यैः = पतञ्जल्यादिभिर्नियमा उदाहृताः । यदुक्तं- “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति (पातं. २३२) ॥२॥ १३६ योगदृष्टिसंग्रह शौचभावनया स्वाङ्गजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याक्षजययोग्यताः ॥३॥ शौचेति । शौचस्य भावनया स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा=घृणा भवति " अशुचिरयं कायो नात्राग्रहः कर्तव्यः " इति । तथा च अन्यैः = कायवद्भिः असङ्गमः तत्सम्पर्कपरिवर्जनमित्यर्थः । यः किल स्वयमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति ? । तदुक्तं- "शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः " (पातं. २- ४०) । तथा सत्त्वस्य = प्रकाशसुखात्मकस्य शुद्धी = रजस्तमोभ्यामनभिभवः । सौमनस्यं=खेदाननुभवेन मानसी प्रीतिः, ऐकाग्र्यं=नियते विषये चेतसः स्थैर्यम्, अक्षाणाम् = इन्द्रियाणां जयो विषयपराङ्मुखानां स्वात्मन्यवस्थानं, योग्यता=चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं "सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानि च " (पातं. २- ४१) इति ॥३ ॥ सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । तपसोऽङ्गाक्षयोः सिद्धिः समाधिः प्रणिधानतः ॥४॥ सन्तोषादिति । सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनापि न समम् । तदाह"सन्तोषादनुत्तमः सुखलाभः " ( पातं. २-४२) । स्वाध्यायात्=स्वभ्यस्तादिष्टदर्शनं जप्यमानमन्त्राभिप्रे तदेवतादर्शनं भवति । तदाह - " स्वाध्यायादिष्टदेवतासंप्रयोगः " ( पातं. २-४४) । तपसः स्वभ्यस्तात् क्लेशाद्यशुचिक्षयद्वारा अङ्गाक्षयोः कायेन्द्रिययोः सिद्धिः यथेत्थमणुत्वमहत्त्वादिप्राप्तिसूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात् । यथोक्तं "कायेन्द्रियसिद्धिरशुचिक्षयात्तपसः " ( पातं. २-४३) ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131