Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 125
________________ परिशिष्ट- १ पदार्थसंकलन ४४ संसारिषु लोकपालादिषु भक्तिः । ४५ सा संसारिदेवकायगामिनाम् । ४६ संसारातीते तत्त्वे भक्तिः । २३७ ४७ सा संसारातीतगामिनां योगिनाम् । ४८ संसारिदेवविषये चित्रा भक्तिर्भवति । ४९ देवभेदे तद्रत्यरतिभेदाद् । ५० यस्य यद् रोचते तस्य तद् देयम् इति लोकप्रवाहो देवेऽपि सङ्गतः । ५१ इष्टापूर्णानि कर्माण्यपि विभिन्नमेव फलं ददते, देवभेदेन फलभेदात् । ५३ अचित्रा तु चरमतत्त्वविषये भवतीति, एकरूपा एव । ५४ फलमपि चास्या एकमेव, परमपदम् । ५५ एवं कुतर्केण बोधो न भवतीति मुख्यविषयमनुसन्धाय बोधस्वरूपं विचार्यते । ५६ बोधः त्रिविधः । ५७ बुद्धिः, ज्ञानम्, असंमोहश्च । ५८ शब्दार्थमात्र श्रवणजनितं ज्ञानं बुद्धिः । ५९ इन्द्रियसंवेदनरूपं ज्ञानं बुद्धिरिति भावः । ६० वस्तुस्वरूपस्य तन्निष्ठो विचार इति । ६२ हेयपरिहारोपादेयोपादानसहितं ज्ञानं पुनरसंमोहः । ६३ सदनुष्ठानप्रवर्तकं ज्ञानमिति भावः । ६४ रत्नं लभ्यते, तत्स्वरूपबोधो भवति, तद्द्महार्घ्यत्वबोधजनितात्मीयभावो भवति चेति त्रिविधो रत्नोपलम्भः । ६५ इत्थंरूपमेव बोधत्रैविध्यम् । ६८ वस्तुसंवेदनम्, वस्तुस्वरूपबोधः, वस्तुविवेकश्चेति त्रिविधो बोधः । ६९ बोधजनितमनुष्ठानमिदम् । ७० धर्मकरणे आदरभाव:, अदृष्टसाहाय्याद् धर्मकरणे अपायबाधाऽभावः, पुण्यवशाच्च सम्पदागमः । तथा निजाभिप्रेततत्त्वे जिज्ञासा । ७१ ७२ तद्ज्ञस्य सेवा | २३८ ७३ तद्ज्ञस्यैवानुग्रहप्राप्तिरिति सदनुष्ठानम् । ७४ कर्माणि यदि बुद्धिप्रेरितानि भवन्ति तदा स्वकीयकल्पनाया प्राधान्यं भवति । ७५ तेन तत् कर्म संसारविवर्धकं भवति । ७६ कर्माणि यदि ज्ञानपूर्वाणि भवन्ति तदा ज्ञानजनितविवेकशक्त्या श्रुतरूपया मोक्षजनकानि भवन्ति । योग ७७ कर्माणि असम्मोहपूर्वाणि योगिनामेव भवन्ति । तेषामनेन शीघ्रमेव मुक्तिलाभः । ७८ योगिनां विभिन्नगुणस्थानस्थितानामपि मोक्षानुसारित्वं समानमेव । ७९ एवं हि समानत्वाद् अत्र सर्वज्ञानां न भेदः । ८० तेन अचित्रभक्तिमार्गेण एका एव रीतिः सर्वज्ञप्राप्तेः । ८१ एकत्वेऽपि यदुपदेशभेददर्शनं तत्र शिष्यचित्तानुकूल्यमेव कारणम् । ८२ बोधपात्रताभेदादेव बोधोपदेशभेदः । ८३ पारम्पर्येण तु बोधस्य पर्यवसानम् एकस्मिन्नेव । ८४ उपदेशभेददर्शनरूपेण या चित्रा देशना भवति सा यथायोग्यरूपे विभिन्नभव्यानाम् उपकारिका । ८५ तीर्थंकराणामपि देशना एकविषयाऽपि विभिन्न श्रोतृषु विभिन्नरूपेणैव परिणमति । ८६ विभिन्नपरिणामेनापि बोधलाभ एव देशनाया साफल्यं, निरतिशयपुण्यप्रभावात् । ८७ एवं विभिन्नपरिणामेषु विभिन्नप्रकारेण बोधसम्पादनमपि देशनाया एव साफल्यमस्मादृशाम् । अविज्ञाय भावार्थम्, कपिलादिदर्शनानामपि प्रतिक्षेपो न युक्तः । ८८ ८९ सर्वज्ञमूलतत्त्वात्तेषामपि स्वीकार्यत्वाद् । ९० तदेवं कुतर्कग्रहपरिहारादेव योगमार्गावबोधः सुकरः । ९१ यतो हि केवलं हेतुवादमेवाश्रित्य वर्षशतैर्वादा विधीयन्ते विद्वद्भिः । ९२ नाद्यापि निर्णयो जातः । ९३ यदि सामर्थ्य हेतुवादे कुतर्के वर्तते तर्हि निर्णयो नायातः कथम् । ९४ तदेवम्-आगमदृष्टिमाश्रित्य कुतर्कपरिहारो विधेयः । ९५ मोक्षानन्दमिच्छद्भिश्च क्षायोपशमिका अपि धर्माः परिहरणीयाः । ९६ क्षायिके भावे सिद्ध एव परमानन्दानुभवः ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131