________________
परिशिष्ट- १ पदार्थसंकलन
४४ संसारिषु लोकपालादिषु भक्तिः ।
४५ सा संसारिदेवकायगामिनाम् ।
४६ संसारातीते तत्त्वे भक्तिः ।
२३७
४७ सा संसारातीतगामिनां योगिनाम् ।
४८ संसारिदेवविषये चित्रा भक्तिर्भवति ।
४९ देवभेदे तद्रत्यरतिभेदाद् ।
५० यस्य यद् रोचते तस्य तद् देयम् इति लोकप्रवाहो देवेऽपि सङ्गतः ।
५१ इष्टापूर्णानि कर्माण्यपि विभिन्नमेव फलं ददते, देवभेदेन फलभेदात् ।
५३ अचित्रा तु चरमतत्त्वविषये भवतीति, एकरूपा एव ।
५४ फलमपि चास्या एकमेव, परमपदम् ।
५५ एवं कुतर्केण बोधो न भवतीति मुख्यविषयमनुसन्धाय बोधस्वरूपं विचार्यते । ५६ बोधः त्रिविधः ।
५७ बुद्धिः, ज्ञानम्, असंमोहश्च ।
५८ शब्दार्थमात्र श्रवणजनितं ज्ञानं बुद्धिः ।
५९ इन्द्रियसंवेदनरूपं ज्ञानं बुद्धिरिति भावः ।
६० वस्तुस्वरूपस्य तन्निष्ठो विचार इति ।
६२ हेयपरिहारोपादेयोपादानसहितं ज्ञानं पुनरसंमोहः ।
६३ सदनुष्ठानप्रवर्तकं ज्ञानमिति भावः ।
६४ रत्नं लभ्यते, तत्स्वरूपबोधो भवति, तद्द्महार्घ्यत्वबोधजनितात्मीयभावो भवति चेति त्रिविधो रत्नोपलम्भः ।
६५ इत्थंरूपमेव बोधत्रैविध्यम् ।
६८ वस्तुसंवेदनम्, वस्तुस्वरूपबोधः, वस्तुविवेकश्चेति त्रिविधो बोधः ।
६९ बोधजनितमनुष्ठानमिदम् ।
७० धर्मकरणे आदरभाव:, अदृष्टसाहाय्याद् धर्मकरणे अपायबाधाऽभावः, पुण्यवशाच्च
सम्पदागमः ।
तथा निजाभिप्रेततत्त्वे जिज्ञासा ।
७१
७२ तद्ज्ञस्य सेवा |
२३८
७३ तद्ज्ञस्यैवानुग्रहप्राप्तिरिति सदनुष्ठानम् ।
७४ कर्माणि यदि बुद्धिप्रेरितानि भवन्ति तदा स्वकीयकल्पनाया प्राधान्यं भवति । ७५ तेन तत् कर्म संसारविवर्धकं भवति ।
७६ कर्माणि यदि ज्ञानपूर्वाणि भवन्ति तदा ज्ञानजनितविवेकशक्त्या श्रुतरूपया मोक्षजनकानि भवन्ति ।
योग
७७ कर्माणि असम्मोहपूर्वाणि योगिनामेव भवन्ति । तेषामनेन शीघ्रमेव मुक्तिलाभः ।
७८ योगिनां विभिन्नगुणस्थानस्थितानामपि मोक्षानुसारित्वं समानमेव ।
७९ एवं हि समानत्वाद् अत्र सर्वज्ञानां न भेदः ।
८० तेन अचित्रभक्तिमार्गेण एका एव रीतिः सर्वज्ञप्राप्तेः ।
८१ एकत्वेऽपि यदुपदेशभेददर्शनं तत्र शिष्यचित्तानुकूल्यमेव कारणम् ।
८२ बोधपात्रताभेदादेव बोधोपदेशभेदः ।
८३ पारम्पर्येण तु बोधस्य पर्यवसानम् एकस्मिन्नेव ।
८४ उपदेशभेददर्शनरूपेण या चित्रा देशना भवति सा यथायोग्यरूपे विभिन्नभव्यानाम् उपकारिका ।
८५ तीर्थंकराणामपि देशना एकविषयाऽपि विभिन्न श्रोतृषु विभिन्नरूपेणैव परिणमति ।
८६ विभिन्नपरिणामेनापि बोधलाभ एव देशनाया साफल्यं, निरतिशयपुण्यप्रभावात् । ८७ एवं विभिन्नपरिणामेषु विभिन्नप्रकारेण बोधसम्पादनमपि देशनाया एव साफल्यमस्मादृशाम् ।
अविज्ञाय भावार्थम्, कपिलादिदर्शनानामपि प्रतिक्षेपो न युक्तः ।
८८
८९ सर्वज्ञमूलतत्त्वात्तेषामपि स्वीकार्यत्वाद् ।
९० तदेवं कुतर्कग्रहपरिहारादेव योगमार्गावबोधः सुकरः ।
९१ यतो हि केवलं हेतुवादमेवाश्रित्य वर्षशतैर्वादा विधीयन्ते विद्वद्भिः ।
९२ नाद्यापि निर्णयो जातः ।
९३ यदि सामर्थ्य हेतुवादे कुतर्के वर्तते तर्हि निर्णयो नायातः कथम् ।
९४ तदेवम्-आगमदृष्टिमाश्रित्य कुतर्कपरिहारो विधेयः ।
९५ मोक्षानन्दमिच्छद्भिश्च क्षायोपशमिका अपि धर्माः परिहरणीयाः ।
९६ क्षायिके भावे सिद्ध एव परमानन्दानुभवः ।