________________
परिशिष्ट-१ पदार्थसंकलन
३९
२४०
योगदृष्टिसंग्रह
सदृष्टिद्वात्रिंशिका
अवेद्यसंवेद्यपदजयेन कुतर्काणां निवृत्तिः भवति । २ कुतर्कपरिहारेण सदृष्टिप्रकाशो भवेत् । ३ प्रथमा सदृष्टिः स्थिरा ।
क्रमायाता तु पञ्चमी दृष्टिरिति ध्येयम् । अत्र प्रत्याहारो योगाङ्गम् ।
निरतिचारा सेयम् । ७ अत्र दर्शनमप्रतिपाति । ८ अत्र न भ्रमदोषः । ९ सूक्ष्मबोधोऽत्र । १० इन्द्रियविजयनिबन्धनः प्रत्याहारः । ११ अस्यां वर्तमानस्य इन्द्रियाणि स्वविषयग्रहणाभिमुखानि न भवन्ति । १२ निजग्राहकशक्तावेव विरता भवन्ति । १३ अन्तरङ्गे च चित्तनिरोधे सेयमवस्था । १४ एतस्मिन् सिद्धे विषयेषु नीयमानान्यपि इन्द्रियाणि न यान्ति तद्तद्विषयेषु । १५ इन्द्रियाणां वशीकारोऽयम् । १६ प्रत्याहारेण ग्रन्थिविभेदो भवति । १७ ततः भवक्रीडा बालधूलिकेलिसमा भवति । १८ विवेकोन्मेषाद् अत्र प्रकृत्या असुन्दराणि अस्थिराणि च सुखानि लज्जास्पदानि
भान्ति ।
अत्र भवो विकल्पानुशयी भ्रम इव अनुभूयते । २० दृश्यमानानां वस्तुवृत्त्या अभावात् ।। २१ आत्मरूपमेव परज्योतिर्मयं परमार्थतः सद्रूपं भाति ।
भवभोगा अपि विषधरसमाः प्रत्यवायिनः । २३ पुण्यपापयोरपि अनात्मधर्मत्वाद्भवानुबंधित्वमस्त्येवेति न तत्र रूचिः । २४ यद्यपि भोगलाभः धर्मस्य फलं तथापि स न उपादेयः । २५ चन्दनसम्भूताद् अग्नेर्दाहो न भवतीति केनोक्तम् । २६ इह हि पुण्यात् शातादिकं लभ्यते, ततश्च अबन्धनमिति तस्य उपादेयत्वं न
विरुद्धम् । २७ भोगलाभस्तु नोपादेयः । २८ यद् भोगाद् आनन्दसंवेदनम्, तद् वस्तुगत्या भ्रमः । २९ भाखाहिनः एकस्कन्धाद् अन्यस्कन्धे भारारोपणं क्षणिकानन्दं तदिव भोगसुखम् । ३० कर्मबन्धजनिता संस्कारा अनिष्टमपि भोगमिष्टमिव भासयन्ति । ३२ प्रतिपक्षभावनया तत्संस्काराणां भवत्यतिक्रमः । ३३ भोगानामसारताभावनेन स्थिरायां स्थैर्यम् । ३४ अत्रैव अलौल्यादिगुणलाभः । ३५ कान्तादृष्टिः । ३६ कान्तायां दर्शनं नित्यम् । ३७ धारणा योगाङ्गम् । ३८ अन्यमुद् विनष्टदोषः । ३९ मीमांसा च गुणः । ४० धारणायां स्थितः चित्तस्य देशे बन्धं करोति । ४१ नाभिचक्र-नासाग्रप्रमुखेष्वङ्गेषु चित्तं स्थिर स्थाप्यते । ४२ एवं विषयान्तरस्य परिहारो भवति, ततश्च स्वस्य स्थिरीकरणम् । ४३ मैत्र्यादिभावितम् अन्त:करणम् । ४४ यमनियमाद्यभ्यासस्वभ्यस्तता । ४५ जितासनत्वं, तेन च प्राणविक्षेपवैधुर्यम् । ४६ इन्द्रियप्रत्याहाराद् ऋजुकायता । ४७ जितद्वन्द्वता । ४८ संप्रज्ञाताभ्यासवशश्च । ४९ एतानि तत्त्वानि धारणासुस्थिततत्त्वस्य । ५० अयमेवंरूपो लोकानां प्रियो भवति । ५१ तथा धर्फकाग्रमना भवति । ५२ इह भोगसद्भावेऽपि न तैर्भववृद्धिः । ५३ भोगानामनिष्टतयैवावलोकाद् । ५४ मनोनैर्मल्यविधायी विचारः । ५५ भोगान् शरीरेण भुंजानः तान् आत्मव्यतिरिक्तानेव पश्यन्नोपलिप्यते ।