Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
५६ भोगान् आत्मरूपे पश्यतस्तु कर्मोपलेपः प्रचुरः ।
५७ यद्यपि भोगशक्तिरत्र विचित्रा कथं न हन्याद् धर्ममित्यत्र शङ्कावसरः ।
५८ तथापि धर्मशक्तिसमक्षं नेयं भोगशक्ति: कार्यक्षमा ।
५९ स्थिरायां ज्ञानं भोगान् अकिञ्चित्करान् करोति तथापि तत्र प्रमादो वर्तते ।
६०
कान्तायां तु न प्रमादभावः ।
६१ अयं गृहवानपि यतिभावस्थ एव ।
६२ चारित्रमोहोदयादेव न संयमलाभः ।
६३ परिणामस्तु न चारित्रविदूरः ।
६४ अस्यां मीमांसागुणः मोहध्वान्तविनाशनः ।
६५ तत्त्वालोकादयं लाभः ।
६६ प्रभादृष्टिः ।
६७ ध्यानमंत्र योगाङ्गम् ।
६८ तत्त्वप्रतिपत्तिरत्र गुणः ।
६९ रूग् अत्र विनष्टदोषः ।
७० सत्प्रवृत्तिरपि चात्र वर्तते ।
२४१
७१ धारणाया देशे चित्तस्य विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् ।
७२ ततो महत् सुखम् ।
७३
नात्र परापेक्षा ।
७४
यत एव बोधो विमलः अत एव ध्यानम् ।
७५ अत्र स्वभावादेव सद्अनुष्ठानम् असङ्गानुष्ठानम् ।
७६ नावधानविशेषेण न वा इच्छाप्रवृत्तेः, अपितु प्राच्यप्रयत्नसंस्कारादेव शुभप्रवृत्तिः । ७७ प्रशांतवाहिता, विभागपरिक्षयः, शिववर्त्म, ध्रुवाध्वा इत्यादि नाम्ना परिख्यातिः । ७८ संस्काराणां निरोधात् प्रशांतवाहिता ।
७९ सदृशपरिणामवाहिता सा ।
८० निरोधस्य प्रादुर्भावः व्युत्थानस्य तिरोभावः इति द्वयं साध्यते प्रशान्तवाहितायाम् ।
८१ चित्ते सर्वार्थता एकाग्रता च दृश्यते ।
८२ सर्वार्थता नानाविधार्थग्रहणशीलता, विक्षेपो वा ।
८३ एकाग्रता एकार्थपरिणामिता ।
८४ सर्वार्थतायास्त्यागे एकाग्रतायाश्चोदये समाधिः ।
८५ विक्षेपस्य अभिभवः निरोधाद् पूर्वमुक्तः, अत्र विक्षेपस्योत्पत्तिविध्वंसः ।
८६ शान्ते अतीतेऽध्वनि, उदिते वर्तमानेऽध्वनि, समवृत्तिकः परिणामः समाहितः
२४२
योग
एकाग्रता ।
प्रभायां व्यवस्थितो योगी निरोधं समाधिम् एकाग्रतां च निष्पादयति । परादृष्टिः ।
८७
८८
८९ समाधिस्त्र योगाङ्गम् ।
९०
अत्र समाधौ नासङ्गः ।
९१
आसङ्गो हि स्वस्थानैकप्रीति: प्रगति रुणद्धि ।
९२
अत्र नायं दोषः ।
९३
द्विविधेयं दृष्टिः ।
९४ सात्मीकृतप्रवृत्तिः, तदुत्तीर्णाशया च ।
९५
सात्मीकृतप्रवृत्तिरिति चन्दनगन्धवदात्मसाद्भूता सर्वाङ्गीणतया धर्मप्रवृत्तिः ।
९६ ततोऽपि विशुद्धा चित्तवृत्तिः द्वितीयायाम् ।
९७ प्रवृत्तिवासकस्य चित्तस्यैवाऽभाव इति ।
९८ यत्र ध्यानं स्वरूपमात्रनिर्भासम् ।
९९ ध्यानमेव च समाधिः ।
१०० अन्ये अष्टाङ्गयोगक्रमाद् ध्यानेन समाधिरिति वदन्ति ।
१०१ अत्र नातिचारसंभावना ।
१०२ क्रियाकलापस्तु कृतकृत्यत्वान्नास्ति ।
१०३ भुक्तस्य भोजनं न भवति तद्वत् ।
१०४ सांपरायिककर्मक्षयः पूर्वम् । अस्यां भवोपग्राहिक्षयः ।
१०५ धर्मसंन्यासविनियोगादत्र वर्तमानो महामुनिः सर्वथा कृतकृत्यः ।
१०६ एतेन लभ्यते कैवल्यम् ।
१०७ ततः परार्थनिष्पादनम् ।
१०८ अन्ते च योगान्तेन शिवगतिः ।

Page Navigation
1 ... 125 126 127 128 129 130 131