Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
परिशिष्ट- १ पदार्थसंकलन
१०८ ग्रन्थभेदविकलानां भवाभिनन्दिनां पापं सानुबन्धं भवति । १०९ रागद्वेषादिप्राबल्यस्य तदनुबन्धबीजत्वादिति ।
११० अकृत्यं कृत्यमिवाभाति । कृत्यं तु अकृत्यमिवाभाति ।
१११ कण्डूकण्डूयने यथा कण्डूरोगवतो रागः, कुम्याकुलकुष्ठिनो यथाऽग्निसेवने रागः तथा भवाभिनन्दिनामनाचरणीये रागः ।
११२ असच्चेष्ट्या च ते निजात्मानं मलीनीकुर्वते ।
११३ भोगजसुखे तेषां मत्स्यगलवद् प्रबलो रागः ।
११४ मोक्षकांक्षिण सत्सङ्गेन, सदागमेन च अवेद्यसंवेद्यपदमिदं जेयम् ।
२.
३
४
५
६.
७
८
कुतर्कग्रहनिर्वृतिद्वात्रिंशिका
अवेद्यसंवेद्यपदे जिते कुतर्का अपि जिता भवन्ति ।
कुतर्को न श्रद्धेयः ।
श्रुते शीले समाधौ चाभिनिवेशः कार्यः ।
श्रुतमिति जिनशास्त्रम् ।
शीलमिति परद्रोहविरतिभावः ।
समाधिरिति ध्यानलभ्यो दशाविशेषः ।
कुतर्केण न तत्त्वानां निर्णयो भवति ।
ज्ञानावरणीयकर्मसंपर्कजनिता: (अविद्याजनिता:) शब्दविकल्पा अर्थविकल्पाश्च
कल्पिता सन्तः कुतर्कशब्दवाच्या भवन्ति ।
न हि अविद्याप्रभवे सत्कार्यताप्रभवः ।
२३५
९
१० अनुपादेयानामंशानां विकल्पः कुतर्के भवति ।
११ सोऽयं प्रतीत्य फलेन च बाध्यत इति जातिप्रायः ।
१२
अत्र हस्ती हन्तीति निदर्शनं सुप्रसिद्धम् ।
१३ कुतर्कस्य निष्ठा स्वभाव दर्शनात् पूर्वं न याति ।
१४ स्वभावस्तु न छद्यस्थगोचरः सर्वज्ञसंवेद्यत्वात् ।
१५ कः खलु छद्मस्थानां प्रामाणिकत्वं स्वीकुर्यात् सति सर्वज्ञवचने ।
१६ अपां शैत्यस्वभाववादिनः, दहनसन्निधौ अपां दाहकतामवलोक्य, अग्निसान्निध्ये दहतीति स्वभावमामनन्ति ।
२३६
१७ अयस्कान्तो लोहमाकर्षतीति स्वभावः ।
१८ तस्याकर्षणकरणं दूरवर्तित्वधर्मिणां न पुनः समाकृष्टानाम् ।
१९ अयमपि स्वभावः ।
२० एवं कुतर्कः स्वभावोत्तरेण विश्रामं दधाति ।
२१ तस्य हि दृष्टान्तलाभः सर्वकालीनः ।
२२ स्वभावसाधनाय कल्पनागौरवादिकं न बाधकम् ।
२३ न हि कल्पनामात्रेण परिवर्त्यते स्वभावः ।
२४ स्वभावसाधने कल्पनालाघवस्य साहाय्यमपि अत एव न प्रयोजकम् ।
२५ कल्पनागौरवं प्रामाणिकं स्यात्तर्हि प्रयोजकम्, न तत्र गौरवस्य दोषत्वम् ।
२६ द्विचन्द्रविषयं स्वप्नज्ञानं कुतर्क समुत्थापयेद् ।
२७ तदेव सर्वज्ञानां निर्विषयत्वान्नालं कस्यचिदपि बोधस्य जनने ।
२८ अतीन्द्रियाणामर्थाणां सिद्ध्यर्थं न कुतर्कस्य शक्तिः ।
२९
तेन प्रस्तुतयोगसाधनायां नावकाशः कुतर्कस्य ।
३०
योगदृष्टिसंग्रह
शास्त्रमेवात्र बोधकम् ।
३१
शास्त्रे श्रद्धावान्, शीलवान् स्वभावेन तथा योगवानेव तत्त्वबोधं लभते ।
३२ न च विभिन्नत्वं शास्त्राणां दोषास्पदम् ।
३३ तेषामेककर्तृत्वमेव दोषपरिहरणक्षमम् ।
३४
३५
शास्त्रभेदः शास्तृभेद इति विचारस्तु मोहमात्रम् ।
शास्त्रसाधनार्थं च सर्वज्ञ एव सर्वशास्त्रमूलः साधनीयः ।
३६ विशेषबोधो न सर्वज्ञादितरस्य भवति ।
३७ सर्वज्ञाभ्युपगन्तारस्तु विशेषं लभन्ते ।
३८ बहवो न तं समापन्ना, तेन न विशेषं लभन्त इति ।
३९ मुमुक्षुभिः शास्त्रकर्तृषु केवलं सर्वज्ञत्वं समादरणीयम्, तैनेव च सर्वेषां शास्त्रकृतां तुल्यता भावनीया ।
४० सर्वज्ञोपासनायां समाहतायां सर्वज्ञसामीप्यं तद्दूरत्वमेव न दृष्टव्यम् ।
४१ नामादिभेदेऽपि सर्वज्ञत्वधर्मो समान इति सामीप्ये सत्यसति वा तदुपासनाऽविरतैव ।
४२ चित्राचित्रादिविभागेन भक्तिवर्णनं यदुपदिश्यते तदपि नामभेदेः योऽभेदः सार्वज्ञ्यमूलः तमपेक्ष्यैव ।
४३ द्विविधा भक्ति: ।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131